पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
प्रथमः सर्गः।

उत्तेजितजयोत्साहमायुधैरनघोद्यमैः ।
शौर्यविक्रमशक्तयाद्यैस्सहजैः स्वगुणैरिव ॥ ७० ॥

उत्तेजितेति। अनघोद्यमैः अवितथोद्योगैः। अहोदुःस्त्रव्यसनवानि- नोऽघशब्दस्य तत्र तत्रोचिते दोषान्तर लक्षणा । शौर्यविक्रमशक्त्यायः शौर्य बलं विक्रमः शौर्यस्य विषयेषु प्रयोगः - विकमः शौर्य करणं' इति वैजयन्ती शक्तिः सामर्थ्य तदाद्यः तत्प्रभृतिभिः । सहजैः स्वभावसिद्धैः । 'सहजं निजमाजानम्' इति स्वभावपर्यायेषु वैजयन्ती । स्वगुणैः आत्मा- यगुणैरिव स्थितैः । आयुधैः सुदर्शनादिभि । उत्तांजनजयोत्साह आयुध- दर्शनादुत्कटीभूतासुरजयाद्योगमित्यर्थः ॥ ७० ॥

स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः ।
महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥ ७१ ॥

स्वकान्तीति। स्व कान्निरेव जलधि तम्य । अन्तः मध्ये। स्वतः सिद्ध-

संहननं स्वत एव कर्माद्यनधीनतया मपावपुषम् । गात्र वपुस्सहननम्' इत्यमरः । महिना माहात्म्येन । कस्य चिनिर्माण विना स्वत एव, जात- वैचित्र्यं सपनकरणवर्णाद्याकारवचित्र्यम् , निर्माणे तादृशाभिरूपय न संभवतीति भावः । उदित उद्भूतम् । महानील इन्द्रनीलमणिविशेषमिव स्थितम् । सोऽपि जलधिमध्ये सिद्ध्यतीति भावः । उत्प्रेक्षालङ्कारः । सिंहलस्याको जाता महानीला इति स्मृताः।' इति रत्नशास्त्रम् ॥ ७१ ॥

श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना ।
स्वाङ्घ्रिसौरभदिग्धेन दत्तसंग्रामदोहलम् ॥ ७२ ॥

श्रुतिरूपेणेति । शेषरूपेण कङ्कणेन शोभत इति शेषकङ्कणशोभी तेन ।