पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
प्रथमः सर्गः ।


यितं तेजः प्रसाद आभिरूप्येण परमानन्दरूपतया चास्वादनीयता च पश्यन्तो नित्योदितत्वनित्यकरूपत्वापरिच्छिन्नत्वानि चादित्यादिवे- लक्षण्यानि, विमृशन्तत्रिदशाः अस्तमयरहितोऽयं कश्चिदन्यादृशादित्य इत्यादिकमेण मेनिर इत्यर्थः । अत्र नानार्थवलादेकस्यैव नानारूपेणोल्लेखा- दुल्लेखालङ्कारः ॥ ७४ ॥

अभयोदारहस्ताग्रमनघस्वागतस्मितम् ।
अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥ ७५ ॥

अभयेति । विबुधा देवाः । अभयेन अभयमुद्रया उदार ख्यात ह-

स्ताग्रं यस्य । ' उदारो महति च्याते' इति वैजयन्ती। अनघ अघविरोधि दर्शनमात्रेण सकलदुःखापहारि स्वागतम्मित कुशलप्रश्नरूपमन्दस्मित यस्य । कर्तव्येऽतिप्रियालापे स्वागत कुशल मतम् ।' इति शब्दार्णवः । तं देवं अवेक्ष्य । दृशाः फल अलभन्त । बहुम्वपि नयनेषु दृशोरिति द्विवचन जात्यभिप्रायम् । ईदृग्जातीनां प्रायेण द्वित्वविशिष्टत्वात् । यथाह वामनः 'स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण ' इति ॥ ७५ ।।

तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः ।
निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥ ७६ ॥

तस्मा इति। नाकिनो देवाः । निहताशेषदत्याय निहतकालनेमि- प्रमुखाखिलदैत्याय । विदितार्थाय निहता दैत्याः भूमावुत्पन्ना बाधन्ते पुनस्तदर्थमागता इति स्वत एव विदितखागमनप्रयोजनाय । तस्मै पुरुषो- तमाय । खागतेः स्वागमनस्य । निदानं मूलम् । विज्ञापयामासुः । 'कर्मणा यमभिप्रेति' इत्यत्र कियाग्रहणमपि कर्तव्यमिति चतुर्थी ॥ ७६ ॥