पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
प्रथमः सर्गः ।

कसप्रभृतिभिरिति विशिष्टहेतुत्वविधिः ‘दना जुहोति' इति न्यायेन विशेषणविधिपर्यवसन्न इति कंसादिसमुद्धरणस्यैव सुवहतानिमित्तत्वमत्र विवक्षितम् ॥ ८३ ॥

प्रबोधसुभगैः स्मरैः प्रसन्नैः शीतलैश्च नः ।
कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदूर्मिभिः ॥ ८४ ॥

प्रबोधेति । प्रबोधेन योगनिद्रापगमसुभगैः चक्षुष्य. । 'चक्षुष्य. सुभग. कान्तः' इति यादवः । प्ररानैः भ्रूविलासमन्दस्मितानुगतैः । 'तत् प्रसन्न भवेत् सभ्रूविलास विस्मित च यत् ।' इति लक्षणम् । स्मेरैः हर्ष- विकासिभि. । भक्तजनतापहरत्वेनोपचारात् शीतलैश्च । कृपैव एको मुख्य उदन्वान् तस्योर्मिभिः । कटाक्ष अपान दर्शनैः । नः अस्मान् । क्षिप्रम् । प्लावय सेचय । अत्र कृपायास्समुद्रत्वरूपणस्य कटाक्षाणामूर्मित्वरूपणस्य च परम्परा सजातेति परम्परितरूपकालङ्कारः ॥ ८४ ॥

त्वयि न्यस्तभराणां नस्त्वमेतां क्षन्तुमर्हसि ।
विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम् ॥ ८५ ॥

त्वयोति । त्वयि न्यस्तभराणा भरन्यास शरणागतिमनुष्ठितवंताम् । नः अस्माक । विदिताशेषवेद्यस्य । तवेति शेषः । एतां विज्ञापनमेव विड- म्बना अनुचितकृत्यम् । त्वम् । क्षन्तु अर्हसि ॥ ८५ ॥

इत्थं वदति देवानां समाजे वेधसा सह ।
ववन्दे पृथिवी देवं विनतत्राणदीक्षितम् ॥ ८६ ॥

इत्थमिति । देवानाम् । समाजे समूहे। वेधसा ब्रह्मणा सह । इत्थ वदति सति । पृथिवी । विनतनाणे दीक्षित कृतव्रतम् । देवम् । ववन्दे ।