पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
प्रथमः सर्गः।


आनन्दवाष्पबिन्दूनां पक्तिरेव पयोधरनतमौक्तिकनैपथ्यत्वेनाध्यवसितेति भेदे अभेदरूपातिशयोक्तिरलङ्कारः ॥ ८९ ॥

प्रस्फुरन्तं प्रियस्येव परिरम्भाभिलाषिणम् ।
दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत ॥ ९० ॥

प्रस्फुरन्तमिति । दक्षिणा प्रवीणा शुभाशुभनिमित्नज्ञा । प्रकर्षण स्फुरन्तम् । अत एव, प्रियस्य परिरम्भाभिलाषिण प्रियपरिरम्भ अभीक्षण अभिलषन्तमिव स्थितम् । अत्यन्ताभिलाषेण त्वरमाणो हि भ्रमति नैक- वावतिष्ठते । दक्षिणादितर वामम् । वाहुम् । बहु यथा तथा अमन्यत । वामभागश्च नारीणां यः पुसान्तु दक्षिणः । दाने देवादिपूजायां स्पन्देऽ- लङ्करणेऽपि च ।' इति स्मृते शुभसूचकतया प्राशस्त्यात् बहुमेने । बाहौ परिरम्भाभिलाषित्वमभावनादुत्प्रेक्षालङ्कारः ॥ ९ ॥

विपदं च जगादैषा विपञ्चीमधुरस्वना ।
विलक्षस्मितसंभिन्नमौक्तिकाधरविद्रुमा ॥ ९१ ॥

विपदमिति । विपी वीणेव मधुरखना हृद्यखना । एषा पृथ्वी । विलक्षस्मित विस्मयान्वितस्मितम् , 'विलक्षा विस्मयान्वितः।' इत्यमरः । लज्जान्वितस्मित वा। आत्मन. स्खलिते सम्यक ज्ञातेऽन्यैर्यस्य जायते । अपनपातिमहती स विलक्ष इति स्मृतः ।' इति लन्नाविशेष- विशिष्टस्य तत्मामान्यवैशिष्टयलक्षणासभवान् ; सभिन्न मौक्तिक यस्मिन् तथोक्तः विलक्षस्मितेन समिनमौक्तिकः मौक्तिकमभेदवान् अधर एव वि- द्रुमो यस्यास्सा तथाभूता सती। विपदं जगाद च । पूर्वश्लोकक्रियासमुच्चया- र्थश्चकारः । अत्र विपञ्चीमधुरस्खनेत्युपमा। स्मितस्य मौक्तिकत्वेनाधरस्य विद्रुमत्वेन च रूपणात् रूपकञ्चति तयोः संसृष्टिः ॥ ९१ ॥