अथ तान्भव्यया वाचा भगवान्प्रत्यभाषत ।
प्रतिश्रुत्याप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया ॥ ९२ ॥
अथेति । अथ धरणीवचनानन्तरम् । भगवान् । भव्यया कल्याण्या। प्रतिश्रुत् प्रतिध्वनिः तया प्राप्तनिर्ह्रादस्य लब्धघोषस्य पाञ्चजन्यस्य भगवच्छङ्खस्य अभिनन्द्यया, प्रतिध्वनिमता पाञ्चजन्येनाभिनन्द्यमानयेव स्थितयेति गम्योत्प्रेक्षा । एवभूतया, वाचा । तान् देवान् । प्रत्यभा- षत । प्रतिवनिकारितया भगवनेरतिगम्भीरत्व व्यज्यते ॥ ९२ ॥
मा भैषुरसुरानीकाद्भवन्तो मदुपाश्रयाः ।
मदाज्ञामनवज्ञातुः परिभूत्या न भूयते ॥ ९३ ॥
मा भैषुरिति । अहमुपाश्रयः शरण येषां ते मुदुपाश्रयाः । भवन्तः। असुरानीकात् दैवसैन्यान् । मा भषुः मा त्रामिगु । भवच्छब्दयोगेन युग्म दुपपदस्य स्थानिनोऽयभावात् 'शेपे प्रथमः'। मदासां अनवातुः मदाना. नतिलखनशीलस्य । ताच्छील्ये तृन्प्रत्ययोऽयम् । तद्योगे 'न लोकाव्यय' इत्यादिना षष्ठीनिषेधात मदाज्ञामिति द्वितीया । परिभूत्या परिभवेन । न भूयते भावे लट् । मदाज्ञामनुवर्तमानाना न कुतोऽपि परिभवो भवती- त्यर्थ । मा भैषुरिति विभीभय इति धातोलुंड । माङयोगादडागमाभावः । मा भैषुरित्यर्थे उत्तरवाक्यार्थरय हेतुत्वेनान्वयाद्वाक्यार्थहेतुक काव्यलिङ्ग- मलङ्कारः॥ ९३ ॥
अवतार्य भुवो भारमवतारो ममामराः ।
अनादिनिधनं धर्ममक्षतं स्थापयिष्यति ॥ ९४ ॥
अवतायेति । हे अमराः । मम अवतारः । भुवो भार दैत्यभारम् ।