पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
प्रथमः सर्गः ।


अवतार्य। अनादिनिधन अनन्तकालप्रवोहेण एकरूपेण प्रवृत्तम् । धर्मम् । अक्षतं स्थापयिष्यति ॥ ९४ ॥

यावदिष्टभुजो यावदधिकारमवस्थिताः ।
परिपालयत स्वानि पदानि विगतापदः ॥ ९५ ॥

यावदिति । विगतापदः मदवतारेण दैत्यानामुपसहारे सति

अपहतापदः । यावदिष्टभुज. यावादिष्ट भुजानाः, यावन्तीष्टानि यागादीनि नावन्ति भुञ्जाना इत्यर्थः । यावदधिकार अवस्थिताश्च सन्तः । स्वानि पदानि स्थानानि । परिपालयत । यावदिष्टयावदधिकारशब्दयोः ‘यावद- वधारणे' इत्यव्य यीभावः ॥ ९ ॥

दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः ।
भूयोऽपि लघुतां प्राप्तां भुवमुल्लाधितामिव ॥ ९६ ॥

दमनादिति । हे त्रिदशाधिपाः सुरश्रेष्ठाः । दनुजेन्द्राणां असुरप्रधाना-

नाम्। दमनात् । भूयोऽपि यथापूर्वम् । लघुतां प्राप्ताम् । भुवम् । उल्लाधितां व्याधिमुक्तीकृतामिव । द्रक्ष्यथ विलोकयिष्यथ । 'उलाघो निर्गतो गदात् ।' इत्यमरः । उल्लाघशब्दात् तत्करोतीतिण्यन्तात् कर्मणि निष्ठा ॥ ९६ ॥

दैतेयमृगसङ्घाते मृगयारसभागिभिः ।
भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः ॥ ९७ ॥

दैतेयेति । मेदिन्याम् । भवद्भिरपि । दैतेयाः असुरा एव मृगाः तेषा मचाते । मृगया यात्रा तस्यां रसभागिभिः कौतुकभाग्भिः । नराधिपः । भवितव्यं भवन्तोऽपि केषाश्चिद्दुष्टानां वधार्थ क्षत्रियकुलेष्ववतरन्त्वि- त्यर्थः । सपृचानुरुध' इत्यादिसूत्रण भजिधातोपिनुष्प्रत्यये ‘च जोः कु घिण्यतोः' इति कुत्वे च भागिशब्दः ॥ ९७ ॥