युगाचार्य-विवकानन्दः आनन्देन मुखरिता बभूवुः । शशिनस्तन्मयत्वेन समयज्ञानमपि नाभवत् । कदा कदाऽपि दिवसे एकहोरां यावदारार्तिक मक्रियत । तदीयेयं तन्मयता सर्वेषां मानसं समाक्रामत् । १८८६ ईसवीयस्यान्तिमभागत: १८६२ ईसवीयस्यारम्भं यावत् बराहनगरभूताविष्टगृहस्थो मठ एव नूतनवैरागिणां तपस्यास्थानमभूत् । १८८७ ईसवीयस्यारम्भे कदापि नरेन्द्रादिभिः सर्वेरेवानुष्ठानिकरीत्या विरजाहोममनुष्ठाय संन्यासाश्रमो गृहीतः । श्रीरामकृष्णेन तु सर्वेषां त्यागिशिष्याणां ललाटेषु पूर्वमेव त्यागतिलकमङ्कितमक्रियत | नूतनैर्ना- मभिर्वेशैश्च ते विभूषिता अभूवन् । अतीताः स्मृतयस्तैः स्त्रहृदयेभ्यो- ऽपसारिताः । “आत्मनो मोक्षार्थं जगद्विताय च” इति नवीनं व्रतं तैरङ्गीकृतम् । श्रीरामकृष्णस्याद्द्भुतस्त्यागः, वैराग्यं, पवित्रता, भगवल्लाभाय तीव्रा व्याकुलता, ईश्वरप्राप्तिचिन्तायां सदैव मग्नता च सर्वेषामन्तःकरणेषु नवीनां प्रेरणां जागरयन्ति । तेन यद् दर्शितं, - ,
- १८६५ ईसवीयशरत्काले अमेरिकातः स्वामिमहोदयः स्वशिष्यम्
अलासिंगानामानमुद्दिश्य लिलेख – “यदाऽहं संन्यासी अभवम् तदा बुद्ध वा- ऽवधार्य च पन्थानमेनं परिगृहीतवान् । विज्ञातं यत् शरीरं बुभुक्षया मरिष्यति । तेन किमभूत् ? अहं तु भिक्षुकोऽस्मि । मम सर्वे सुहृदो निर्धनाः सन्ति । अकिञ्चना एवं मम प्रियाः सन्ति । अहं दरिद्रतां सादरमगृह्णाम् । कदा कदापि च मयोपवासेन दिनानि याप्यन्ते । एतेनाहं प्रसीदामि । नाहं कस्यापि साहाय्य मभ्यर्थयामि, तेन को लाभः ? सत्यं स्वीयप्रचारं स्वयं करिष्यति । मम साहाय्यं - बिना न तन् नयति । "सुखदुःखे समे कृत्वा लाभालाभौ जयाजयो । ततो यद्धाय युज्यस्व" इति गीतावाक्यम् ।... एतादृशस्यानन्तप्रेम्णः, सर्वावस्थाया- मेत हशा विचलित समभावस्य सत्त्वात् ईर्ष्या-द्वोषयोः परिपूर्णतया विमुक्तौ कार्याणि सेत्स्यन्ति । मम सहायताया अभावेन न तद् विनङ्क्ष्यति ।” स्वामिनो वृत्तान्तेनानेन संन्यासधर्मस्य महत्त्वं दायित्वं च प्रकाशितं भवति । ु S