पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( e ) तथा मोहस्य च परे पारे वर्तते । मानवात्मनः प्रतिष्ठा सर्वग्राहिण्यां आत्मीयतायां तथा प्रेम्णि कृतपदा | स्वामिनो निजजीवनं उपनिषद्- चांण्या उज्ज्वलमुदाहरणं विद्यते । स्वतन्त्रे भारते 'स्वामिविवेकानन्दस्य वाणी-जीवनयो: भूयिष्ठाना- मालोचनानुशीलनानां नितान्तमावश्यकता वर्तते । स्वतन्त्रताप्राप्तेः सप्तदशवत्सरेषु अतिलंघितेष्वपि याः समस्याः अस्माकं जातीयं जीवनं पादाक्रान्तं विधाय निदधिरे, यासां समाधानं नः दुष्करम्, तासां समस्यानां मोमांसाया: अनेके संकेता अस्माभिः स्वामिनो वाणी- जोवनाभ्याम् आसादयितुं शक्यन्ते । यद्यपि स्वामिमहोदयः राजनीति- पथपान्थो नासीत्, तथापि स भारतीयजातीनां संघटनस्य एकतायाः तथा बलाधानस्य कृते सुचिन्तितान् अनेकान् निर्देशान् लिपिवद्धान् व्यधात् । समाजनायकान् तथा देशस्य कर्मठानपि स भूयांसि सावधान- वचांसि समश्रावयत् । तदनुधावनस्य अवसरोऽप्युपस्थितो विद्यते । स्वामिविवेकानन्दं प्राचीनेतिहासाभ्यन्तरे आवद्ध्य तत्स्थापनं न तावदुचितम् । विंशशताव्द्या उत्तरार्धे या भावधाराः तथा घटनापरं- पराणां याः सूचनाः संलक्ष्यन्ते सर्वमिदं नूनं स निजालौकिकदूरदृष्ट्या निरीक्षितवानिव । तदर्थं सावधानवाणीमध्यश्रावयत् तथा मार्गमपि निरदिशत् । तस्मादस्य युगस्य मानवानां स एकोऽन्तरंगकल्याणसहचरः आस्ते । स्वजीवनसंग्रामे, भाविकल्पनादीनामन्तराले यदीममलोक- सामान्य पुरुषप्रवरं अनुगच्छामः तदास्माकं लाभाहते हानिर्न भविष्यति । स्वामिनं प्रति 'युगाचार्य' इति कथनमौपचारिक- मालंकारिकं वा नास्ति, इदं प्रत्यक्षरं तात्त्विकमेव ।