युगाचार्य-विवेकानन्दः शक्तेश्च समारोहः । तच्च पुनरभ्युत्थानं श्रीरामकृष्णं केन्द्रीकृत्य सम्प- त्स्यते । भारतवर्पेण सर्वजनीनकल्याणाय जीवितेन स्थातव्यम् । यतः समस्तविश्वस्य आध्यात्मिक्या: भावधारायाः पुनरुद्दीपनेन सह भार- तस्य कल्याणं संहतमारते । विश्वकृते एव भारतेन जीवितव्यमस्ति । परन्तु तच्च केन भावेन संघटितं भविष्यतीत्यसौ तदानीमपि काले पूर्णरूपेण न परिज्ञातवानासीत् | ईश्वरस्य निर्देशार्थं स प्रतीक्षा - 20 मकरोत् । १०८ पुनः स्वामी इयद्भ्यो दिवसेभ्यो वैद्यनाथ-गाजीपुर-काशी- प्रयागादिस्थानानां दर्शनाय निरगच्छत् । किन्तु तस्य पदे पदे बाधा- विघ्नानां साम्मुख्यमभवत् । काचिदेकाऽज्ञातशक्तिः तन्मार्गमवरुध्य इव स्थिता अभवत्। गाजीपुरनिवासकाले भक्तप्रवरसुरेन्द्रनाथमित्रस्य कठिनरोगसमाचारमवगत्य स कलिकत्ता-प्रत्यागमन पूर्व काशी- मायातः । तत्रैव च प्रमदादासमित्रेण सह निवाससमये श्रीठाकुरस्य परमभक्तवलराम बाबूमहोदयस्य कठिनरोगसमाचारं प्राप्य स अवि लम्वं कलिकत्तां प्रत्याजगाम | बलरामबाबूमहोदयस्य रोगसमाचारेण स्वामिनं विशेषकातरं दृष्ट्वा प्रमदाबाचू महाशयस्तमपृच्छत् –“भवान् संन्यासी अस्ति । भवत एतादृशं शोकाकुलत्वं किमुचितमास्ते ? " स्वामी उदतरत्- "भवानेतादृशं कथयति ? किमहं संन्यासी भूत्वा हृदयमपि विस्मृतवान् ? यथार्थसंन्यासिनः हृदयं साधारण- मनुष्यहृदयापेक्षयाऽधिकं कोमलं भवेत् । किमपि स्यात्, वयं मनु- ध्यास्तु स्म एव, एतद् व्यतिरिक्तम् असौ मम गुरुभ्राता विद्यते । वयमेकगुरोश्चरणसमीपमुपविश्य शिक्षां प्राप्नुवाम । हृदयं प्रस्तरं कर्तुमुपदिशति, स ममाभिप्रेतो नास्ति ।” संन्यासिनो हृदयं तु कुसुमादपि कोमलं भवति । यश्च संन्यासः - स्वामी त्वरितमेव कलिकात्तां पराववृते । महायात्रायै प्रस्तुतो बलरामबाबूमहोदयः स्वामिनं प्राप्य मृत्युयंत्रणां व्यस्मरत् । स च श्रीराम-
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति