पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः श्रीमात्रा प्रोक्तम् – “पुत्र, अहं हृदयतः आशिषं ददामि । यत् त्वं सिद्धकामो भूत्वा परावर्तस्व | तवाभ्यन्तरे तु श्रीठाकुरो निवसति ।” । ११२ श्रीमातुर राशीर्वाद शिरसा धारयन्नसीमबलेन बलवान् भूत्वा श्री- स्वामी बराहनगरमठात् निर्जगाम | हिमालय-तिव्बतीय-मार्गोपत्यका- सम्बन्धेऽभिज्ञः गङ्गाधर : ( स्वामी अखण्डानन्दः ) तदीयपथप्रदर्शक- रूपेण सहैव प्राचलत्। स्वामी निर्जगाम अमरजीवनास्वादनाय तथाऽभ्यन्तरेऽव्यक्तप्रकाशनाय च । समस्तस्यापि भारतस्य तस्याः तीर्थयात्राया अभ्यन्तरे स्वामिना विवेकानन्देन नूतनमेव जन्म माता किं वस्तु इति इदानीं यावदपि मया नावधारितम् । इदानीं यावत् युष्मा- भिरपि न परिज्ञातं, क्रमशो ज्ञातुं शक्ष्यते । भ्रातरः, नान्यथा मन्तव्यम् । युष्मासु कोऽपि साम्प्रतमपि मातरं नावाबुध्यत । मातृकृपा मम सम्मुखे पितृ- कृपातो लक्षगुणाधिका । भ्रातरः, क्षंतव्योऽस्मि । मया तु स्पष्टवार्ताद्वयं प्रतिपादितम् । अहं तस्या मातुः किंचिदधिकपक्षपाती । भ्रातः तारक, अमेरिकाऽऽगमनतः प्राक् आशीर्वाद ग्रहीतु मया श्रीमातुः निकटे एकं पत्रं लिखितम् । तयाऽऽशीर्वादो दत्तः । अहं त्वरितमेव समुद्रपारमागच्छम्। एताव- देवावधारय । “बाबूरामस्य जननी वृद्धतायां बुद्धिहीना बभूव । सा जीवितदुर्गा परित्यज्य मृत्तिकादुर्गायाः पूजां कर्तुमुपविष्टा । भ्रातः, विश्वासो महद्धनमास्ते । जीवितदुर्गायाः पूजां यदि प्रदर्शयिष्यामि, तदैव मम नाम ।” स्वामिनः प्रेमा- नन्दस्य माता प्रतिमायां दुर्गापूजाया आयोजनं कृत्वा श्रीश्रीमातरं तस्यां पूजायामुपस्थित्यर्थं हुगलीमण्डलान्तर्गत-“ऑटपुर"-ग्रामे न्यमन्त्रयत् — इमां - C घटनामुल्लिख्य स्वामिना तस्मिन् पत्रे स्वामिने शिवानन्दाय इयं वार्त्ता समुल्लिखिता ।