युगाचार्य-विवेकानन्दः गृहीतम् । भारतीय पवित्रधूलिकणाभ्यन्तरतः समुत्पन्नः स्वामी विवेकानन्द एव भारतवासिभिः प्राप्तः, विश्ववासिभिरपि वरणीयश्च बभूत्र ११३ पूर्व भागलपुरे वैद्यनाथे काइयां च जगाम । सहि तरुणभास्करः कुत्रापि आत्मगोपनं कर्तुं न शशाक । यत्रागच्छत्तत्र सर्वत्रैव प्राकट्य- मगमत् यश्च क्षणकालकृतेऽपि तस्याभ्यन्तरिकमहाशक्तिपरिचयं तेन प्राप्य सह , वार्तामकरोत् स एवं मुग्धो बभूव । स केवलं परिहितकौपीनः मुण्डितमस्तक : श्रमण एव नासीत्, प्रत्युत स भस्मा- च्छादितः पावकोऽभूत् । यश्च प्रतिभायाः अनलस्तस्य नेत्रयोः प्राज्व- लत्, तमसौ कथमपि गोपायितुं न प्रबभूव । काइयां प्रमदादास- मित्रमहाशयः स्वामिनं सादरमग्रहीत् । पाण्डित्ये शास्त्रज्ञाने पद- मर्यादायां च सः समस्तेऽप्युत्तरप्रदेशे एकः श्रेष्ठपुरुषः आसीत् । प्रमदादासेन सह शास्त्रीयालोचनायां स्वामी सविशेषमाननन्द | आन्तरिकशक्तेरुत्तेजनया एकदैका कठोरवाक् स्वामिनो मुखान्निर्जगाम “अहं गच्छामि । यावदहं समाजस्योपरि बमास्त्रवत् विदीर्य्य न पतिष्यामि, यावच्चानुगतभृत्यवत्समाजं कृतानुशरणं न कारयिष्यामि,
- स्वामिनं विवेकानन्दं प्रति श्रद्धांजलिं समर्पयन् श्रीमानरविंदः प्रोवाच-
“शक्तिमान् पुरुषः इति कथनयोग्यः यदि कश्चिदस्ति तदाऽसौ स्वामी विवेकानन्द एव । विवेकानन्दः पुरुषसिंह आसीत् । वयमनुभवामः, स्वामिनो विवेकानन्दस्य शक्तिः प्रभावश्च प्रचण्डभावेन कार्यं कुरुतः । ( तदीयजीवनस्य ) यत् किंचिद् महत् सिंहसदृशं वोर्यसम्पन्न कमनीयं च स्वतः स्फूर्तम् अनुभवोपलब्धम्, उज्जावकञ्चासीत् तत् सर्वमपि भारतस्यात्मनि प्रविष्टमास्ते । वयं ब्रमः- दृश्यतामसौ विवेकानन्दः भारतमातुः तत्संतानानामन्तरात्मसु इदानीमपि निवसतिं ।”—( बंगलामासिकम् ) उद्बोधनम् १३६५ वर्षीयचैत्रसंख्या ।