युगाचार्य-विवेकानन्दः विडम्बनयाऽल्पदिनैरेव प्रबलज्वरेण स्वामी समाक्रान्तोऽभवत् । नासीत् कश्चिदुपाय: । कस्याप्यौषधस्य पथ्यस्य च प्रबन्धसंभवो न बभूव । गुरुभ्रातरः किंकर्त्तव्यविमूढतामभजन् । एकस्मिन् दिने ज्वरस्य प्रबलकोपेन स्वामी लुप्तचेतनो जातः, शरीरं शीतलतां गतम् । धमनी नालभ्यत । स्वामिनो अन्तिम समयमुपस्थितमवगत्य गुरुभ्रातरः शोक- व्याकुला: अभूवन् । स्वामी एव तेषां बलस्यालम्बस्य च स्थानमासीत् । श्रीठाकुरस्यादर्शनानन्तरं तमेव समाश्रित्य सर्वे जग्मुः | अनन्यमनसस्ते भगवतश्चरणेषु स्वामिनः प्राणभिक्षां ययाचिरे । इदानीमेव काले देवप्रेरित इव कुटीद्वारे एक अज्ञातसाधुः समागत्योपस्थितः । तेन स्वझोलिकामध्याहेक मौषधं निःसायं तच्च मधुना संघृष्य भक्षणार्थं दत्तम् । केनापि प्रकारेण तदौषधं स्वामिनो मुखे निक्षिप्तम् । आश्चर्यम् । अल्पैरेव क्षगैरस्य शरीरे प्रचुर: स्वेदः समुत्पन्नः, ज्वरश्च व्यपगतः । क्रमशस्तेन नेत्रे उन्मीलिते, ततश्च शीर्णस्वरेण तेन प्रति- पादितम् यत् तस्यामचेतनावस्थायां तेन एका अपूर्वा अतीन्द्रियाऽनुभूतिः प्राप्ता | तेनावधारितं यत् साम्प्रतं मृत्युर्न भविष्यति । तेन श्रीभगवतो विशेषकार्याणां सम्पादनं कर्त्तव्यमास्ते । अत एव कारणादसौ मृत्यु- मुखान्निर्गतः । तां भविष्यवाणीमाकर्ण्य गुरुभ्रातृभिः कथंचित् सान्त्वना समधिगता । तेऽपि शनैः शनैः स्त्रस्था बभूवुः । हृषीकेशस्य जलवायू तदानीं कालेऽस्वास्थ्यकरावास्ताम् । अतः कारणात् स्वामी दुबलेनैव शरीरेण हरिद्वारमानीतः । स्वामी ब्रह्मानन्दः हरिद्वारस्य समीपे कनखले तपस्यां कुर्वन् आसीत् । संवादमाकर्ण्य सोऽपि समागत्य स्वामिना सम्मिलितोऽभवत् । ततः स्थानात् स्वामी गुरुभ्रातॄनादाय सहारनपुरे आजगाम - पूर्वपरिचित-वकील-बङ्क-बाबू- भवने । - १२१ • तदानीं काले स्वामिनः शरीरमतिदुर्बलमासीत् । अखण्डानन्द एषु दिवसेषु मेरठ मागत्य किंचित्स्वास्थ्य मध्यगच्छत् । तेषां विशेषाग्रहेण स्वामो
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति