पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः अखण्डानन्दः प्रतिदिनमेकं पुस्तकमानयत् | स्वामी तदधीत्य द्वितीये दिवसे तत् प्रत्यर्पयति । एवंप्रकारेण लावकस्य सर्वाण्यपि पुस्तकानि तेनाधोतानि | लावकस्यैकस्य पुस्तकस्य प्रतिदिनं नयनं द्वितीय दिने च प्रत्यर्पणं दृष्ट्वा वाचनालयाध्यक्षस्य कौतूहलं जातम् । तेन पृष्टम् - “कोऽस्ति वृत्तान्तः, भवान् प्रतिदिनं पुस्तकं गृह्णाति, द्वितीय दिने तत्प्रत्यपंयति । एतानि पुस्तकानि किमर्थं गृह्णासि ?” १२४ अखण्डानन्देन सोत्साहमुत्तरं दत्तम् – “स्वामिनः कृते पुस्तकानि गृह्णामि, सः पठति ।” - अध्यक्षः सपरिहासमवोचत् - किमेतत्सम्भव मेकस्मिन्दिने लावस्य एक पुस्तकस्याध्ययनम् ! अखण्डानन्दस्य मुखेन एतादृशीं वार्त्तामाकर्ण्य स्वामी स्वयमध्यक्षं साक्षात्कर्तु मगच्छत् । एकस्या द्वितीयस्या वा वार्त्ताया आलापानन्तरं प्रहसता तेन प्रत्युक्तम्- 'मया तानि पुस्तकानि सभ्यक् पठितानि | भवान् इच्छति चेत् पृष्ट्वा द्रष्टुं शक्ष्यति । " अध्यक्षस्य कुतूहलं जातम् । स च विभिन्नग्रन्थेभ्यः स्वामिनः प्रश्नमकरोत् । प्रत्येक प्रश्नस्य यथार्थमुत्तरमेव न हि, प्रत्युत लावकस्य भाषामपि उद्धृतां कुर्वन्तं स्वामिनं विलोक्य अध्यक्ष महोदय आश्चर्या - न्वितो बभूव । तदीयमुखाकृतिर्मलिनतामभजत् । स्वामी प्रोवाच - "अहं बालकवत् शब्देषु पंक्तिषु दृष्टिं दत्त्वा नापठम् । एकमनुच्छेदं सहैव पठामि एकपृष्ठस्य आरम्भस्यैकां पंक्तिं पठित्वैव लेखकस्य वक्तव्यमवधारयितुं शक्यते ।”*** मेरठनामकनगरे मासत्रयाधिककालं स्वामी गुरुभ्रातृभिः सह आसीत् । एतत् समयाभ्यन्तरे गुरुसोदराणामाध्यात्मिकजीवनं यथा समृद्धमभवत्, तथैव स्थानीयाः अनेकव्यक्तयः अपि स्वामिनः संसर्गेण धर्मालो कलाभपूर्वकं धन्या बभूवुः । तासामभ्यन्तरे धनिनो निर्धनाः, पंडितमूर्खाः, – समाजस्य सर्वस्तरीय मनुष्या आसन् । -