पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः स्वामी अभ्यन्तरे एकस्या महाशक्तेः तेन जीवनस्य महत्तर- कर्त्तव्य-संधानमपि - स्फुरणस्यानुभवं चकार । प्राप्तम् । संकल्पे दृढो भूत्वा स एकस्मिन् दिने गुरुबन्धून् आहूय प्रोवाच, – “मम जीवनस्य व्रतं स्थिरमभूत् । अधुना मया निःसंगेन भूत्वा स्थातव्यम् । युष्माभिः मम संगस्त्यज्यताम् । गुरुभ्रातृभिः सह निवासोऽपि एकप्रकारेण मायाया: बन्धनरूप एव सर्वबन्धनमुक्तो भूत्वाऽहं एकाकी भ्रमणं कर्तुमिच्छामि । मया सह केवलं भगवान् एव स्थास्यति ।”... १२५ - गुरुबन्धूनां कोऽप्यनुरोधस्तेन नाकर्णितः । १८६१ ईसवीयजनवरी- मासस्यान्तिमभागे स एकाकी निर्जगाम - भारतस्य अगणितमानव- समुद्रेषु स सम्मिलितो बभूव । असंख्य-संन्यासिन इव सोऽप्येको गैरिकवबधारी संन्यासी एव आसीत् ।.. वर्षद्वयादप्यधिक-कालं यावदसौ एकाकी भ्रमणमकरोत् । * भारतस्य धूलिषु तदीयानि पदचिह्नानि विलीनतां प्रापुः, कदापि ग्रामे, कदापि पत्तने, कदापि च धनिनो भवने, कदाचिञ्च निर्धन-कुटीरे, कदापि वृक्षस्य तले, देव मन्दिरे चासौ न्यवात्सीत् । कदापि वर्ण- श्रेष्ठस्य ब्राह्मणस्य सम्मानितोऽतिथिः पुनः अस्पृश्यान् धन्यान् विधातुं तेषां सुखदुःखयोर्भागी चाभवत् । राज्ञां महाराजानाञ्च सौधेपु

  • श्रीमदाचार्यशङ्करेणापि स्वकीये 'विवेकचूड़ामणि' ग्रंथे ब्रह्मज्ञपुरुषस्य दिनचर्या

एवमेव वर्णिता आस्ते- चिन्ताशून्यमदैन्यभैक्ष्यमशनं, पानं सरिद्वारिषु स्वातन्त्र्येण निरंकुशा स्थितिरभीनिंद्रा श्मशाने वने । वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही सञ्चारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ १ ॥ विमानमालम्ब्य शरीरमेतद् S भुनक्त्यशेषान्विषयानुपस्थितान् ।