पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९ युगाचार्य - विवेकानन्दः निखिला एव तस्य धर्मोपदेशमाकर्ण्य परितृप्ता अभूवन् | कदाचिदसौ हृदयावेगेन उर्दूबंगलाहिन्दीभाषापद्यानि साधकानां पदावलीञ्च तुमधुरकण्ठेनागायत् । कदाचिञ्च गीतोपनिषत्पुराणकुरानादीनां व्याख्यामकरोत् । प्राचीनानामार्य्यमहर्षीणां चरित्रकीर्त्तनं, बुद्ध-शंकर- कबीर-साधुतुलसीदास-नानक दादू-चैतन्यं रामकृष्णादीनां जीवन-सम्बन्धि-विविधघटनाः शाखालोकतः महाजनानां समुद्भासिताः कुर्वन् रात्रिं यावत् विभिन्न- अतिसहजरीत्यावागमयत् । प्रातःकालादारभ्य श्रेणीनां मानवानां समागमेन डाक्टरमहोदयस्य गृहं तीर्थस्थान रूपेण पर्थणमत् । बहवो मनुष्यास्तं स्वगृहमानीय आलोचना-सभाया आयोजनमकार्षुः । संन्यासिनः सम्मान- किंचिद्दिनाभ्यन्तर एत्र सर्वशास्त्रज्ञस्य तस्यापूर्वस्य समाचारः दीवान-मेजर रामचंद्रस्य कर्णयोः प्रापत् । स च पूर्वकं स्वामिनं स्वगृहमानयत् । स यथा यथा वार्त्तालापं कुरुते स्म तथा तथाऽधिकतरं विस्मितोऽभवत् । एतादृशं पाण्डित्यं, भूयोदर्शनं, तेजस्विता, सर्वस्वपरित्यागश्चेत्यादि तदीयं सर्वमद्भुतम् आसीत् । एतं संन्यासिनं द्वारीकृत्य संभवतः महाराजस्य जीवनेऽपि परिवर्तनाधानं शक्यते – इदं दीवानमहोदयेन आलोचितम् । - महाराजो मङ्गलसिंहः सम्पूर्णरूपेण साहबः आसीत्, – मृगया- यामेव व्यावृतोऽतिष्ठत्, राज्यकार्यं किमपि नापश्यत् । महाराजस्य सन्निधाने समाचारोऽगच्छत् - "एको विख्यातः साधुः समागतोऽस्ति, अतिसुन्दरांग्लभाषां वदति, शास्त्रज्ञानमपि तत्रासाधारणमास्ते, पाश्चात्त्यदर्शनान्यपि कण्ठस्थानि सन्ति । परम सौ महान् त्यागी वर्तते ।” , " कुतूहलवशात् महाराजः तं साधु द्रष्टुमागतः । सार्धञ्च तेनानेके उच्चपदस्था राज्य कर्मचारिण आसन् । ईषद्द्वार्त्तालापानन्तरं महाराज: अपृच्छत् - "श्रयते भवान् परमविद्वान् वर्तते, यदि वांछति तदा --