युगाचार्य-विवेकानन्दः यथेष्टं धनमर्जितुं शक्नोति । एवं नानुष्ठाय भिक्षां याचमानः कथं भ्राम्यति भवान् ?” १३० - स्वामी गंभीरभावेनोत्तरमदात् - "भवाँस्तु देशस्य राजा वर्तते, राज्यकर्म समुपेक्षमाणः साहबै: साकं मृगयां कुर्वन् कथं भ्राभ्यति ?” राज्यकर्मचारिणां मनसि भयमुदियाय | महाराजोऽपि स्तब्धो जातः । केभ्यश्चित् क्षणेभ्यः अनन्तरं स्वशिरो नमयन्नेवासावुत्तरमदात् –"कथं भ्रमामि, तत् साधु वक्तुं न शक्नोमि | आम्, तत् मह्यं रोचतेऽत एव मृगयायां क्रीडामि ।” स्वामी विहसन्नुवाच “यथा मनोरुचि- करत्वात् भवान् मृगयां करोति, तथैव मनोनुकूलत्वादहमपि संन्यासी संवृत्तः ।” श्रुत्वेदं महाराजो मौनी बभूव । कस्यचित् क्षणस्यानन्तरमसौ पप्रच्छ – “अत्रत्याः मूर्त्तिपूजां कुर्वन्ति, न तत्र मम कोऽपि विश्वासः । तर्हि मम का दशा भविष्यति ?” परिहासं कुर्वन् महाराजः किंचिद् जहास | स्वामिना प्रोक्तम्- "संभवतः महाराजः परिहासं करोति ।” - - महाराजो जगाद – “न स्वामिन, मैवम् पश्यतु भवान् सत्यमेवाहूं पूजां न कर्तुं शक्नोमि । किं , काष्ठमृत्तिकाप्रस्तरधातुनिर्मितमूर्त्तीनां मम आगामिजन्मनि अधोगतिर्भविष्यति ?” - स्वामी स्तब्धो जातः । पुरतो भित्तौ महाराजस्य चित्रमासीत् स्थापि- तम् । तमवतारयितुं स आज्ञापयामास । ततश्च तत् स्वहस्ते गृहीत्वा स्वामी पप्रच्छ–“इदं कस्य चित्रम् ?” दीवानमहोदय उदतरत् – “एतन्- महाराजस्य चित्रम् ।” सहसा स्वामी गंभीरस्वरेण अवोचत् "दीवान- महोदय, भवानत्र चित्रे निष्ठीवनं करोतु ।" सर्वे स्तंभिता बभूवुः । किमयं संन्यासी उन्मादी वर्तते ? किन्तु स्वामी अधिकदृढस्वरेणोवाच, – “भवत्सु कोऽपि चित्रोपरि थूत्करोतु ।” सर्वे स्तव्धीबभूवुः । गम्भीरं वातावरणमुद्रपद्यत काचिदा- कस्मि की दुर्घटना घटमानव संवृत्ता | सर्वे भयेन संकुचिता जाताः ।
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति