हृदस्ति । तदीयमन्तःकरणं पश्चात्तापपरिपूर्णमभवत् स मौनमवलम्बमानोऽश्रणि व्यमुञ्चत् । किन्तु नरेन्द्रनाथस्याभ्यर्थनामिमां श्रीठाकुरः पर्यपूरयत् । एतस्याः घटनायाः कतिचिद्दिनानन्तरमेकदा नरेन्द्रनाथ: काशीपुरस्योद्याने ध्यानाय समुपविवेश । तदीयं मनः क्रमशो निर्विकल्पसमाधिमध्यरोहत् । शरीरं च स्थाणुवन्निश्चलं वाह्यतो मृतवत्प्रतीयते स्म । स च देहातीत- सच्चिदानन्दसत्तारूप-स्पन्दनविहीने गभीरसमाधौ न्यमज्जत् । नरेन्द्र- नाथस्य तादृशीमवस्थामवलोक्य तस्यैको गुरुभ्राता श्रीठाकुरस्याभ्यर्ण- मुपेत्य प्रोवाच – “नरेन्द्रो मृतः ।” युगाचार्य-विवेकानन्दः । निर्भर्त्सनमाकर्ण्य श्रीरामकृष्णदेव उपर्यासीत् । निम्नस्थे प्रकोष्ठे नरेन्द्रनाथः समा- धिस्थो बभूव । स सर्वं वेद प्रावोचच्च- “साधु संवृत्तम् । त्यज, तद्- वस्थायामेवासौ कञ्चित्कालं तिष्ठतु | एतदर्थमेवासौ मामाकुलित- मकरोत् ।' - बह्नतीतायां रात्रौ नरेन्द्रनाथस्य समाधिर्भग्नः । तदवस्थ एवं स प्रोवाच - " मम शरीरं कुत्र ?” शनैः शनैः सह्जां दशामधिगत्य स उपरिस्थे प्रकोष्ठे श्रीठाकुरस्य समीपं ययौ । तदीयं मनः परिपूर्णमासीत् समाधिशान्त्या । शिरो नमयित्वा स श्रीठाकुरस्य सम्मुखं तस्थौ । तमवलोक्यैव गंभीरस्वरेण श्रीठाकुरो जगाद – “किं भोः ! सम्प्रति तु माता त्वां सर्वमदर्शयत् । यत् त्वया दृष्टम्, तत्सर्वमिदानों निरुद्ध स्थास्यति । एतर्हि त्वया मातुः कार्यमनुष्ठातव्यम् । मातुः कार्ये समनुष्ठिते त्वयेयमवस्था पुनः प्राप्स्यते ।” . 3 नरेन्द्रनाथस्य चेतोऽक्षयशान्त्या परिपूर्णमासीत् मौनमाश्रयन्नसौ निम्नदृष्टिरस्थात् । अत एव हि नरेन्द्रनाथ : परवर्त्तिनि काले विवेका नन्दस्वामिरूपेण समस्तेऽपि भूमण्डले योगारूढपदमारुह्य कार्यमनु- द्वशतुमशक्कोत् । यथा भगीरथः सुरनदीं पृथ्वीतलमवातारयत्, तथैव
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति