युगाचार्य-विवेकानन्दः दिवसान् ध्यानमग्नतया व्यतीयाय । किन्तु तस्यां गुहायामपि भारतस्य दुःखदारिद्य -मोचन-चिन्ता तस्यान्तरं मथितमकरोत् । स ध्यानमग्नतया समधिकदिनपर्यन्तं स्थातुं नाशकत् । जूनागढं परावर्त्य अनेकस्थानेषु प्रचारं कुर्वन् पोरबन्दरे उपस्थितो बभूव । १५० पोरबन्दरे अथवा सुदामापुर्यां स राज्ञोऽतिथिरासीत् । तस्य प्रधान- मन्त्री पूर्वमेव स्वामिनः सम्बन्धे विशेषरूपेणाशृणोत् । पोरबन्दरे स्वामी कतिचनमासपर्यन्तं अवसत् । * तत्र प्रधानामात्यः शंकरपाण्डुरङ्गः अद्वितीयो विद्वानासीत् । तस्मिन् समये सः वेदस्या- नुवादं कुवंन्नासीत् | स्वामी तस्यानुवादकार्ये सहायतां अददात् एवं तस्मात् पातञ्जलमहाभाष्यस्याध्ययनं समाप्तं चकार । पण्डितः उत्साहेन तं फ्रांस भाषामपि अपाठयत् । स्वल्पैरेव दिवस: तस्या भाषाया यथेष्ट- अधिकार प्राप्त दृष्ट्वा पण्डितः प्रसन्नो भूत्वा अभापत – "स्वामिन् ! भविष्यति अस्या भाषाया ज्ञानं भवत्कार्ये विशेषतया सहायकं भविष्यति ।” - वेदस्यानुवादसमये तस्यापूर्वा बुद्धि तथा प्रतिभाञ्च विज्ञाय पंडितोऽवोचत्–“स्वामिन् ! भवतः प्रतिभायाः शक्तेश्च सम्मानकर्ता मनुष्यः अस्मिन् देशे विरलः अस्ति । ममैवं प्रतिभाति इदानीन्तने भारते भवतः योग्यं क्षेत्रं न वर्तते । भवान् पाश्चात्त्यदेशान् गच्छतु तथा तत्राग्नि प्रज्वाल्य आयातु, तदा द्रक्ष्यति भवान् यद् एतद्देशीया
- परिव्राजकजीवनेऽपि स्वामिनः प्रधानं कार्यमभवत् 'वाणी प्रचारः ।'
तस्यैकस्मिन् पत्रे लिखितमासीत् –“ मया जगते किमपि सन्देष्टव्यमस्ति ! तमहं निजभावेन वदिष्यामि । अहं स्ववक्तव्यानि हिन्दूरूपेण न प्रकटयिष्यामि, नापि ईसाईरूपेण, अन्यस्य वा कस्यापि रूपेण । अहं निजरूपेणैव प्रकट यिष्यामि । मुक्तिरेव मम धर्मः- "श्रीरामकृष्णस्य जीवनं तथा तस्य वाण्येव स्वामिनः वाणी आसीत् ।