युगाचार्य-विवेकानन्दः श्रेण्यां यात्रामकरोत् । तस्यां कक्षायामन्येऽपि त्रयो माराठी सज्जनास्तत्र आसन् । एकं पर्यटकं संन्यासिनं द्वितीय श्रेण्याम् आसीनं दृष्ट्वा ते अक्षु - भ्यन् तथा परस्परं संन्यासिसम्प्रदायस्य आङ्गलवाण्यां कटुमालोचना चक्रुः । एषु सहयात्रिकेषु अन्यतमः बालगङ्गाधर तिलकः आसीत् । यात्रिकाणां मनस्यासीत् यत् संन्यासी आङ्गलभाषां न जानातीति । तस्मात् ते संन्यासिनां चर्चा कुर्त्राणा: मनसि प्रसन्ना अभूवन् । आत्म- सुखाभिलापिणाम् एषामकर्मण्यानां संन्यासिनां वृन्दमेव भारतवर्षस्याधः- पतने कारणमस्ति । एतान् अस्माद् देशात् अनिष्कास्य देशस्य मुक्तिः न भवेत्, अस्मिन् विषये केवलं तिलकः विभिन्नं मतं प्रकटी- कृतवान् । स्वामी तूष्णीं शृण्वन्नवर्तत, किन्तु आलोचना सीमानं यदा प्राप तदा स तूष्णीं स्थातुं नाशकत्, आलोचना-वार्तालापे भागं गृहीतवान् । रूपे बौद्धधर्मरूपे परिवृत्तो जातः इत्यादि । इदानीं 'धर्मः' इत्युक्त वेदान्त एव प्रतीयते । विभिन्नजातीयानां विभिन्न प्रयोजनैः पारिपार्श्विकतया तथा अन्यान्याव- स्थानुसारं तस्य प्रयोगः विभिन्नरूपे अवस्यमेव भविष्यति । यूयं जानीत यत् मूलं दार्शनिकं तत्त्वमेकमस्ति यद्यपि, तथाऽपि शक्तिशैवादिसाम्प्रदायिकाः स्वस्व विशेषधर्ममतस्य तथा अनुष्ठानपद्धतेः अभ्यन्तरे तस्मै ( वेदान्ताय ) रूपं , प्रायच्छन् ।.. अद्यावधि संसारे यावतां धर्माणामभ्युदयो जातः सर्वे वेदान्तधर्ममूलकाः, अथवा वेदान्तधर्मस्य विभिन्नाः शाखाः सन्ति । तेषां शाखाधर्माणां समष्टिरूप एव वेदान्तधर्मः अस्ति । भविष्यत्यपि कियतामपि धर्माणामभ्युदयः कुतो न भवेत् सर्वे वेदान्तधर्ममूलका भविष्यन्ति । द्वतं, विशिष्टाद् तम्, अद्व तम्, इमानि त्रीणि मतान्यतिलंध्य किमपि धर्ममतम् उत्पन्नं न भवेत् । श्रीरामकृष्णः तस्यैव वेदान्तधर्मस्य मूर्तिः अस्ति । स सर्वभावमयः तथा स्वर्वधर्मस्वरूपो वर्तते । ,
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति