युगाचार्य-विवेकानन्दः कानिचन दिनानि तत्रावसत् । किन्तु स्वल्पैरेव दिनैः स अनेक- व्यक्तीनां दृक्पातपात्रतां जगाम | मैसूरप्रधानामात्यः सर के. शेषाद्री- अय्यर महोदयः स्वामिना वार्तालापं विधाय आश्चर्यचकितः संवृत्त: # कोऽयं सौम्यः अस्ति ? समस्तं शास्त्रम् अस्य रसनाग्रे नृत्यति, प्रतिभा दीप्तं मुखामण्डलं, ज्योतिर्मये विशाले लोचने, कोऽपि देवलोकनिवासी भूमण्डलमवतीर्ण इवास्ति । स स्वामिनं निजसौधे सादरं निवासयामास । तत्समयावधि मैसोर-नगरस्थानेके शिक्षितास्तथा उच्चपदस्था अधि कारिणश्चास्य तरुणयतेः ईश्वरीयशक्त्याऽऽकृष्टाः संवृत्ताः । विवेकानन्दस्य वार्ता श्रीचामराजेन्द्र वडियारमहाराजस्य कर्णान्तिकं प्राप । स स्वामिना साकं परिचितो भवितुं सविशेषमाग्रहं प्रकटी- क्रमशः चकार । शेषाद्रो-अय्यरः स्वामिनमादाय राजसभायामुपतस्थौ । स्वामिनं दृष्दैव महाराज विशेषरूपेण मोहितो बभूव । भूरिपरिचये जाते स स्वामिनं राजातिथिरूपेण निजप्रासादे निवासयितुमिच्छां प्रकटीचकार । एवं तस्य निवासस्य कृते सौधस्यैकमंशं रिक्तमकार्षीत् । स्वामी सविस्मयं तमपृच्छत् – “एतावद्भिः प्रकोष्ठकैः किं स्यात् ? भूमिशय्या- प्रसारयोग्यं स्वल्पं स्थानमेव पर्यातमस्ति ।” कतिपयदिवसाभ्यन्तरे एव घनिष्ठता ववृधे । महाराजः तादृश- त्यागस्य पवित्रतायाः एवं प्रेम-ज्ञानयोश्चापूर्व समावेशं क्वाप्यन्यत्र नाद्राक्षीत् । एकड़ा राजप्रासादे पण्डितमण्डल्या: सभैका समाहूता । प्रधान- मन्त्री सभापतिरासीत् । पण्डिता एकैकश: धर्मस्य तथा दर्शनस्य सम्बन्धे व्याख्यानं ददुः । विवेकानन्दोऽपि कृतेऽनुरोधे किञ्चिद् वक्तु समुत्थितः । तस्य तेजोभासुरं वदनं विलोक्य सर्वे सभासदः स्तव्धा अभूवन् । स वेदान्तस्य जटिलतायामपतित्वा अन्यदार्शनिकमतैः सार्धं वेदान्तस्य समन्वये तथा वैयक्ति के जीवने वेदान्तस्योपयोगितां प्रयो
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति