१४ १८६२ ई० वर्षस्य दिसम्बरमासे कोचिनं गत्वा स्वामी त्रिवांकुर- राज्यस्य राजधानीं 'त्रिवेन्द्र' समागच्छत् । तस्य स्थानस्यापूर्व प्राकृतिक- सौन्दर्य स्वामिनं सविशेषमाकृष्टं चकार । अत्रापि महाराजस्तथा प्रधानामात्यादयः भूयांसो विशिष्टाः पुरुषाः स्वामिन्यनुरक्ता: अजायन्त । भारतीयजातीय समस्यैव तस्यालोचनाया: प्रधानो विषय आसीत् । स्वल्पैरेव दिनैः तत्रत्यशिक्षितानाम् एवं विचारशीलानां व्यक्तीनामुपरि तदीयवचसां विशिष्टः प्रभावः पर्यपतत् । तस्मिन्नवसरे त्रिवांकुरस्य एस० के० नायरः लिखितवान् - “स्वामिना सह ये जनाः घनिष्ठभावेन सङ्गता : ते तस्यालौकिक- शक्त्याकृष्टाः अभूत्वा स्थातुं नाशकन् | युगपत् अनेकव्यक्तीनां प्रत्येक प्रश्नस्य उत्तरं दातुं तस्मिन् विशिष्ट सामर्थ्यमासीत् । स्पेन्सर शेक्सपीयर-कालिदासा: डारविनस्य विकासवादः, यहूदीजातेः इति " हासः, आर्य सभ्यताया उत्पत्ति तथा क्रमविकासः अथवा वेद-वेदान्त- भुस्लिम-ईसाई - धर्मशास्त्रं कस्मिन्नपि विषये पश्चादपसरन्तं तं नापश्यत् कोऽपि । कोऽपि प्रश्नः कुतो न भवेत् तस्य समुचितमुत्तरं तज्जिह्वा- संलग्नमिव प्रस्तुतमतिष्ठत् । तस्य मुखे सरलता तथा महत्ता स्पष्टलिखिता आसीत् । निर्मलं हृदयं, तपस्यापूतं जीवनम्, उदारा बुद्धि, उन्मुक्तं चित्तम्, असंकीर्णा दृष्टिः, तथा सर्वेषु प्राणिषु सहानुभूतिः इत्यादीनि तस्य चरित्रस्य विशेषता: अभूवन् ।” - स्वामी केवलं नवदिनानि त्रिवाकरे व्यवसत् । तदनन्तरं स रामेश्वरं प्रातिष्ठत | पथि मदुरा नगरे रामनादराजेन भास्कर सेतुपतिना
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति