युगाचार्य विवेकानन्दः भुवनेश्वरी विशिष्य बुद्धिमती कर्मकुशला भक्तिमती च बभूव । शरीर- मनसोः सौन्दर्यहेतुनाऽसौ सर्वजनप्रियत्वमगच्छत् । किन्तु पत्युर्धर्म- भावेन सह तस्याः सर्वांशतो नासोन्मेलनम् । देवदेवीषु भुवनेश्वरो देवी पूर्ण विशश्वास । पूजां प्रार्थनां च नित्यमन्वतिष्ठत् । रामायण- महाभारतादिग्रन्थास्तस्याः कण्ठस्था अभूवन् । सा पूर्णरूपेण हिन्दुरमणी । तादृशी तेजस्विनी सर्वगुणसम्पन्ना च महिला विरलैव बभूव । अविच्छिन्नरूपेण चतस्रो बालिका: समुपद्यन्त । तासु द्वळे अकाले कालकवलिते जाते । कोऽपि बालको न वभूव । अत एव विश्वनाथदत्तो भुवनेश्वरी देवी च विशेषदुःखमनुभवतः स्म । एतादृशो महान् अभाव- बोधस्तयोश्चेतसी निरन्तरं पर्यपोडयत् । भुवनेश्वरी देवी स्वेष्टदेवसमीपे निजहृदयवेदनामेकान्ते विनिवेदयन्ती बभूव । तया समाकर्णितं यदाशुतोषशङ्करप्रसादेन तस्याः मनस्कामना परिपूर्णा भवितुमर्हति । अतोऽसौ शिवाराधनतात्परा बभूव । काश्या वीरेश्वरः शिवो जाग्रदेवः । अतः किल तत्रत्यां स्वसम्बन्धिनीं कामपि महिलां द्वारीकृत्य एक पुत्र- प्राप्तेः मनस्कामनां कृत्वा प्रतिदिनं वीरेश्वरपूजनप्रबन्धमसावकरोत् । . इतो भुवनेश्वरी देवी चापि शिवस्य पूजाध्यानजपादिषु दैनन्दिनं तन्मयी अभवत् । कातरप्रार्थनया तस्या हृदयमाप्यायितम्। सर्वदैव सर्वेषु कर्मसु च तदीयं मनः प्रार्थनारतमभूत् । एवं प्रकारेण वर्षं व्यत्यगात् । एकस्यां रात्रौ भुवनेश्वरीदेव्याऽपूर्वः स्वप्न एको ददृशे । दृष्टौं तया यत् देवादिदेवो महादेवो योगनिद्राया व्युत्थितः शिशुरूपेण तस्या अङ्कमाजगाम । दिव्यानन्देन शरीरं तदीयं पुलकितं जातम् । याथातथ्येन नानुष्ठिता, स कदापि महान् भवितु नाहः ।" पित्रोर्भक्तिः संसारे- ऽत्रार्यसभ्यतायाः सर्वाभ्यर्हिताऽवदानस्वरूपा विद्यते । उपनिषदुपदेशोऽपि – “मातृ- देवो भव, पितृदेवो भव ।”
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति