युगाचार्य-विवेकानन्दः महता उत्साहन मद्रास-भक्ता 'दातव्य' धनस्य संग्रहमकुर्वन् । तेन भाषितम्- "मम गमनं यदि भगवतोऽभिप्रेतं भवेत् तर्हि अहं जन- साधारणानां तथा दीनदुःखिनां प्रतिनिधितयैव गमिष्यामि | यूयं धनिकेभ्यः धनं मा संकलयत ।” मार्चमास एवमेवात्यगात् । प्रतिदिनं नवा नवा जनारतदीयां वाणीं श्रोतुमागच्छन् | इतञ्च तदोयमन्तरं श्रीभगवतः आदेशस्य कृते सातिशयं व्याकुलं बभूव । स श्रीश्रीमात्रे पत्र विलिख्य तस्या आशीर्वादस्य प्रार्थनां कर्तुं संकल्पमकरोत् । एतस्मिन्नेव समये एकेनाचिन्तनीयेन उपायेन तेन श्रीरामकृष्णदेवस्यादेशः ज्ञातोऽभूत् । एकस्यां रात्रौ अर्द्ध- निद्रितावस्थायां स स्वप्न मे कमपश्यत् श्रीठाकुर: ज्योतिर्मयशरीरं धृत्वा समुद्रस्य तरङ्गमालोपरि अग्रेसरो भूत्वा व्रजति तथा स्वामिनं पृष्ठतोऽनुगन्तुम इङ्गितं करोति । एतस्य दर्शनस्य पश्चात् एकेनानिर्वचनी येन आनन्देन तदन्तरं सम्भृतं बभूव । सहैव दैवी वाग् 'गच्छ' प्रत्यभासत । श्रीरामकृष्णदेवस्य अभिप्रेतं मत्वा स पाश्चात्त्य देशगमनस्य दृढं संकेल्पमकरोत् । परिव्राजकरूपेण निर्गमनसमये सः श्रीश्रीमातुः आशीर्वाद गृहीत्वा यात्रारम्भमकरोत् । समुद्रयात्रायाः पूर्वमपि स श्री श्री मातुरराशीर्वादान् प्राप्तुमेकं प्रार्थनापत्रं प्रेषयामास । तस्मिन् पत्रे स श्रीठाकुरस्यादेशवार्ता न सूचितवान् तथा निज पाश्चात्त्य देशयात्रां गोपयितुं मातुरनुरोधमकरोत् । चिरकालानन्तरं प्राणप्रियस्य वत्सस्य नरेन्द्रस्य पत्रं प्राप्य श्रीमाता सुतरामानन्दिता बभूव । किन्तु सन्तानस्य विरह्व्यथा तस्या अन्तरं विक्षुब्ध मकरोत् । एकस्यां रजन्यां श्रीमाता तादृशमेव स्वप्नं दृष्टवती - श्रीठाकुरः समुद्रस्य उत्तालतरङ्गोपरि व्रजन् अस्ति, तथा नरेन्द्रं पृष्ठतोऽनु- गन्तुं संकेतं करोति। श्रीठाकुरस्य संमतिम् अवधार्य श्रीमाता हार्दान् आशीर्वादान् सूचयन्ती उत्तरभलिखत् – “गच्छ वत्स ! तव मुखे सरस्वती विराजमाना भवतु, त्वं सर्वत्र विजयी भूत्वा प्रत्यागच्छ ।”
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति