पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः श्रीमातुः पत्रं लब्ध्वा स्वामी आनन्देनाधोरो भूत्वा शिष्यानाह- 'हन्त ! अद्य सर्व समीचीनं जातम् श्रीश्रीमातुरादेशः प्राप्तः ।” विद्युद्वेगेन स वृत्तान्तः समस्ते मद्रासनरे प्रसृतः तथा कतिपयदिवसा- भ्यन्तरे एव समुद्रयात्रायाः सर्वा व्यवस्था सुष्ठु जाता । यात्राया दिनं ३१ मईमासे, प्रस्थानं बम्बईतः इति निर्धारितम् ।... १७२ - - वर्षद्वयात् पूर्व खेतडीराजाय स्वामी पुत्रलाभार्थमाशीर्वादान् दत्तवानासीत् | राज्ञः पुत्रलाभो बभूव । समस्ते खेतडी राज्ये उत्सवः समाचरितः । राज्पुत्राय आशिषं दातु स्वामिनमामन्त्रयितु राजा निजसचिवं जगमोहनलालं मद्रासं प्राहिणोत् । जगमोहनलालस्य प्रस्तावमाकर्ण्य स्वामी जगाद - "दृश्यताम् जगमोहन ! ३१ मईमासे अमेरिकाप्रस्थानं निर्धारितम् । इदानीं कथमहं तत्रागन्तुं शक्नुयाम् ? त्वमेव तावद् वद ।” स्वामिनः कामप्यापत्तिम् अमानयन् सोऽब्रवीत् “न्यूनातिन्यूनम् एकस्य दिनस्य कृते भवान् तत्र आगच्छतु । भवद- नागमनेन राजा भृशं खिन्नो भवेत् । सम्भवतः स स्वयमागत्योपस्थितः स्यात् ! अमेरिकायात्रायाः सर्व प्रबन्धं वयमेव करिष्यामः ।” स्वामी विवशो भूत्वा प्रययौ ।... मद्रास-शिष्यान् आशिपा अभिनन्द्य तेभ्यः महता कृच्छ्रेण परिमुक्तः स्वामी खेतीं प्रतस्थे । मार्गमध्ये बम्बई-नगरे तथा जयपुरे चावत- तार । 'आबूरोड्’- वाष्पयानविश्रामालये अप्रत्याशितरूपेण स्वामि-ब्रह्मा- नन्देन एवं स्वामितुरीयानन्देन च स्वामिनः समागमो जातः । स्वामी निजं पाश्चात्त्यदेशयात्रायाः संकल्पं विज्ञाप्य वार्ताप्रसङ्ग तुरीयानन्दं सम्बोधयन् प्राह — "हरिभ्रातः ! मम हृदयं भूरि विशालं संवृत्तम् । अहं स्वान्तरे जनतायाः कष्टं पीडां च सम्यगनुभवामि ।” इति वदन्नेव कम्पमानं निजकरमुरसि निधाय अश्रु मोचयितुमारभत । द्वौ गुरुभ्रातरावपि तस्य विशाल हृदयं परिज्ञाय अभिभूतौ संवृत्तौ । स्वामिनोऽश्रुविसर्जनं विफलं न बभूव । संसारस्य दीनानां