पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः सहसैव निद्रा तम्या भग्नाऽभूत् । तदानीमेव हिमगिरितुल्यो ज्योतिर्मयो देवोऽन्तर्द'वे । तया च भक्तिपरिपूर्णचेतसा चन्द्रमौलीश्वरमुद्दिश्य प्रणामो विहितः – “शिव शिव ! हे करुणामय कृपानिधे !” -

तस्मिन् दिने पौषी संक्रान्ति:, शिवस्य दिनं सोमवार, मकरस्य सप्तमी तिथिरासीत् । कलिकत्तानगरी महोत्सवपरिपूर्णा बभूव । । मकरवाहिन्याः पुण्यस्नानाय सदलवलाः स्त्रियः पुमांसश्च समागमन् । सूर्योदयस्य किञ्चित्क्षणानन्तरं भुवनेश्वर्या अङ्कमालोकयन् एको भुवन- मङ्गलो देवशिशुराविरभवत् । दत्तपरिवारे महानानन्दकोलाहलो बभूव । मङ्गलशंखो ध्मातः | हुलुवनभिः साकं गृहमहिलाभिनंवजात- शिशोः स्वगतं व्याजह्वे । देवसमानपुत्रमवलोक्य भुवनेश्वरीदेव्याऽवधारितं यत् देवस्वप्नः सफलोऽभवत्, स्वयं वीरेश्वर एव शिशुरूपेण समायातोऽस्ति । जनन्या बालकनाम 'वीरेश्वर' इति निर्धारितम् । आह्वानस्य नाम 'बिले' । अन्नप्राशनकाले च 'नरेन्द्रनाथ' इति नामधेयं कृतम् । च प्रातःकालादेव दिनप्रकाशस्य सूचना जायते । बालकस्याभ्यन्तरे तदोयभाविनः स्वरूपस्य सम्भावना निहिता तिष्ठति । वालको यथा यथाऽवर्धत, तथा तथा तस्य जोवनवैशिष्ट्यं प्राकट्यमवाप । शिशो- रभ्यन्तरे या ब्रह्माण्डपरिचालनशक्तिरासीत् सा विभिन्नेषु छन्दःसु विविध रूपेषु च स्वीयं स्वरूपं प्रकाशयाञ्चकार । लघीयसो बालकस्यो- पद्रवेण गृहजना निरन्तरमुद्विग्नमनसो बभूवुः । स हि महानू हठी आसीत् । यन्मनसि निरचिनोत्, न कथमपि तत् पर्यत्यजत् । निर्भर्त्सनं, प्रहारः, भयप्रदर्शनं चेति सर्व तत्समीपे व्यर्थतामगच्छत् । पुत्रमशान्त-