पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः विश्वप्रदर्शनीमेवापश्यत् । सोऽतीव सुमहान् व्यापारः । भूयांसो जनाः, केयं व्यग्रता ! कीहक च चांचल्यम् ! सर्व्वमेव नूतनमववृतं जातम् । पाश्चात्त्यदेशस्य धनसेम्पदां प्राचुर्यं यान्त्रिकं कलाकौशलं शिक्षा विज्ञानयोः समृद्धिरित्यादिविपये तदुद्भावन-शक्ति-विषये च तस्य धारणा स्वल्पा एवासीत् । विज्ञानस्य कियानभिनव आविष्कारः ! कियान वा विविध यन्त्राणां पण्यसम्भारः ! कुवेरोपम धनवतां देशे शिल्पकलाया: कोशी समुन्नतिः ! पाश्चात्त्य देशस्य गरिमाणमालोक्य विस्मयेनैव सोऽभिभूत आसीत् । भारतस्य दैन्यविषयं स्मरतस्तस्य चित्तं दुःखवेदनया भाराकान्तं जातम् । अपूर्वमेव तेनैव सह १८० परिच्छदमधिकृत्य स्वामिमहोदयेन अनेकैव विडम्बना सहनीया जाता । युवबालकसंघस्तस्य पञ्चादनुसृत्य नानाभावेन तं विराग- भाजनमकरोत् । कोऽपि तस्य परिच्छदं विभृत्य आकर्षति स्म, कोऽपि वा करतालिकां ददाति । निरुपाय: स सर्वम् असहत । शिकागोनगरे समुपस्थितेः कियद्दिनेभ्यः परमेव प्रदर्शन्या अनुसंधानागारं समेत्य तस्य मनः सम्पूर्णतया निरुत्साहं जातम् । सर्वैव प्रचेष्टा विफला । सोऽजानात् यत् सितम्बरमासस्य प्रथमसप्ताहात् प्राग् नारब्धमेव धर्मसम्मेलनं भविष्यति । एवं च उत्तमपरिचयपत्रादावसति कोऽपि सभायाः प्रतिनिधिरूपेण नैव निर्वाचितो भवितुमर्हति । अन्यश्च विषयः, प्रतिनिधि निर्वाचनस्य अन्तिमो दिवसो व्यतीत एव ।... भारते एतत्सम्मेलनसम्बन्धिवृत्तं कोऽपि विशेषतो न जानाति स्म । स हि कस्याप्यनुमोदितधर्मस्य प्रतिनिधिरूपेण नागतवान् । इतश्च स्वामिमहोदयः विभिन्नकाले नामपरिवर्त्तनं कृतवान् । एतदेव अतिशय स्वाभाविकं मन्ये, यत् स्वामिमहोदयः स्वयमेव विवेकानन्द इति नाम गृहीतवान् । तत् अमेरिकामवतीर्यापि भवितुमर्हति, ततः पूर्वमपि वा ।