युगाचार्य- विवेकानन्दः सुतरां परितृप्तिरजायत । समये समये कौपीनं परिधाय संन्यासी भवितुं समीहते स्म । मातुर्मुखाद् रामायणकथामाकर्ण्य नरेन्द्रनाथस्य सोतारामौ प्रति महती भक्तिरुद्पद्यत । विपणितः सीतारामप्रतिमां क्रोत्वा समानीय सौधोपरि स्थिते लघुप्रकोष्ठे स एकान्ते समर्चामन्वतिष्ठत् । " गेहेऽनेके पालिताः पक्षिणः, छागाः, मयूराः, कपोताः, वैलायितिका:- श्वेता मूषिकाः, एका दुग्धदात्री गौश्चासन् । एको वानरः, द्वौ शीघ्रगावश्वौ चाप्यविद्यन्त । सर्वैः सह नरेन्द्रस्य नितरां स्नेहसम्बन्धोऽतिष्ठत् । अश्वसेवकः सारथिश्च तस्यान्तरङ्गमित्रभूतौ, बहुविधसुखदुःखवार्ता लापस्ताभ्यां साकं तस्याभूत् । एकदा घोटकसेवकेन प्रोक्तम् – "विवाह- विधानमपि बहुविपत्तिकार्यम् । विवाहस्य द्वितीयदिनत एव मम गृहेऽशान्तेदुःखस्य च राज्यमिव प्रसृतम् ।” सहानुभूत्या नरेन्द्रस्य स्वान्तं परिपूर्णमभवत् । सत्यमेव विवाह एव सर्वदुःखहेतुः । रामचन्द्रेण यादृशं दुःखं कष्टं च सोढं, तत्सर्वं विवाहकारणादेव । बालकस्य मानसं नितरां विवाह विरुद्धमभवत् । ययोः सीतारामयोः स समर्चन- मनुतिष्ठति तावपि कृतविवाहावासाताम् । तर्हि कथं तयोः पूजनं स कर्तुं शक्नुयात् ? अव्यक्तया वेदनया तदीयं मनः समाक्रान्तम् निर्णयानुष्ठाने सामर्थ्यविरहादसौ मातुरभ्यर्णमुपागच्छत् । मातुर्वक्षसि मुखं गोपयित्वा रुदता नरेन्द्रनाथेन स्वीयमानसवेदना प्रकाशिता । सान्त्वनां ददती भुवनेश्वरी देवी प्रोवाच - "एतेन किमभूत्, बिले, तर्हि त्वं शिवपूजामनुतिष्ठ ।”... -
- अमेरिकातः पत्र एकस्मिन् स्वामिना लिखितम् – “न, अहं तत्त्वजिज्ञासु-
र्नात्मि, दार्शनिकोऽपि नास्मि । न, न, अहं साधुरपि नास्मि । अहम् अकिञ्चनो- ऽस्मि । अकिञ्चनाय स्पृहयामि ।” स हि समस्तानपि सांसारिकान् समुद्दिश्य अश्र ण्यमुञ्चत् । अकिञ्चनकल्याणसाधनं तदीयजीवनस्य सर्वाभ्यर्हितं व्रतमासीत् ।