युगाचार्य-विवेकानन्दः महायुद्धद्वयस्य भयंकरे परिणामे तथा तृतीयमहायुद्धस्य विध्वंसकारिणो विराडायोजनस्योपरि चक्षुर्निक्षिप्तं चेत् अस्माकं मनसि महद् भय- मुत्पद्यते । परन्तु मदमत्तानां दर्पितानां मनसि इदानीमपि सुबुद्धिनदेति । विज्ञानस्याविष्कारान् विश्वध्वंसकार्ये अविनियुज्य मानवजातेः सुखश्य सौन्दर्यस्य च वर्धन कार्ये यदि ते विनियुज्येरन् ! सम्भवतः नव- सृष्ट्यै तथा अभिनवसंघटनाय इतोऽपि महतो ध्वंसस्य आवश्यकता अस्ति । २३३ तदानीमेक आङ्गलबन्धुस्तमप्राक्षीत्–“स्वामिन् ! एषु अनेकेषु वत्सरेषु पाश्चात्त्याभिजननिवासानन्तरं भारतवर्षं भवते कथं भासेत ?” सावेगं स्वामी उत्तरं प्रायच्छत् – “पाश्चात्य देशागमनात् पूर्वं अहं भारतवर्षं स्निह्यन्नासम्, परन्तु साम्प्रतं भारतीयः पवनः, एतावत्पर्यन्तं भारतस्य प्रत्येकं धूलिकण: मन्निकटे अतीव पवित्रों वर्तते । भारतभूमिः पावनभूमिरस्ति । मदर्थं भारतं परमपवित्रं तीर्थं विद्यते ।..." स्वामी भारतप्रत्यागमन-सम्बन्चे मनः स्थिरीकृत्य मद्रासगतेभ्यः अन्यस्थानस्थितेभ्यश्च शिष्येभ्य: पत्राणि प्राहिणोत् । सेवियर दम्पती तथा गुड्चिन महाशयश्च स्वामिना सह प्रस्थातुं सन्नद्धा बभूवुः | मिस- मूलरमहाभागा एवं मिस-नोवेलाऽपि भारते स्त्रीशिक्षाविस्तारणाय स्वामिनं अनुयास्यतः । सुहृदः, छात्राः तथा शिष्याः सर्वेऽपि स्वामिवियोगचिन्ताकुला अभूवन् । विशालायां सौप्रास्थानिकसभायां सहस्रशः स्त्रीपुरुषाः उपस्थिता वभूवुः, बहूनां नेत्रेषु अश्रुजलमासीत् । अभिनन्दनपत्रमवाचि । स्वाम्यपि तदुत्तरमयच्छत् । स लन्दन निवासिनां हार्दिकप्रेम्गा मुग्धोऽभूत् । १८६६ ई० वत्सरस्य दिसंबरमासस्य १६ दिवसे सेवियरदम्पतीभ्यां सार्धं स्वामी लन्दनं मुक्त्वा 'डोवर-कैले-मन्टसेनिस'-मार्गेण इटलीं समा- ययौ । रोमदर्शनं तमभिभूतं चकार । 'कैथोलिक' जनानां संघटनशक्ति- प्रचारोद्यमाभ्यां तस्य हृदये अनेकेषां विचाराणामुदयो बभूव । तेपामु-
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२४३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति