युगाचार्य- विवेकानन्दः जाग्रत' रूपा जागर्तेर्वाणी श्राविता | तस्या उत्तरं लक्षशो जना ददुः । तस्यैव फलस्वरूपेण विंशशताव्द्या: सूचनायां वंगे तथा समग्रे भारते जातीयमान्दोलनं नवीनां परिवृत्तिं जग्राह, आवेदनस्य निर्जीवपथात् अपसृत्य तीव्र निर्भीकजातीयताबोधात् तथा नूतनसंघटनान्तरात् ।..
२४७
मद्रासनिवाससमये स्वामिनं विभिन्नस्थानेभ्योऽनेकान्यामन्त्रण- पत्राण्याययुः । खेतडीमहाराजात्, पूनातः लोकमान्यतिलकात्, विभिन्न- स्थानेभ्यः एवं विशिष्टव्यक्तिभ्योऽपि स्वामिने पत्राणि प्रेषितानि । किन्तु विशेषेच्छासत्त्वेऽपि तत्र तत्र तस्य गमनं सम्भवं नाभूत् । आकोलम्बो- स्थानात् मद्रासनगरीं यावत् अविरतभाषणैः आलोचनाभिः तथा अनेकलोकै: सह समागमेन एवं वार्तालापेन च स इयदधिकं क्लान्तो जातः यत् तस्य विश्रामस्यावश्यकता समापतत् । अनेन कारणेन स स्थलपथेन न गत्वा विश्रामार्थं जलपथेन फरवरीमासस्य १५ तारिकायां प्रातःकाले कलिकात्तां गन्तुं प्रातिष्ठत । मद्रास-निवासिनः तत्र स्थायि केन्द्रं संस्थापयितुं तमन्बरुन्धन् । तदुत्तरे स्वामी प्रावोचत्- “नाधुनैव, इतोऽग्रे अहं युष्माकं निकटे एकं तादृशं गुरुभ्रातरं प्रेषयिष्यामि यः युष्माकं नैष्ठिक-ब्राह्मणेभ्योऽपि नैष्ठिकतर: एवं पूजाशास्त्रज्ञान-ध्यान- धारणादिषु अतुलनीयः अस्ति ।”* - वाष्पप्लवघट्ट अनेके मनुष्याः समवेयुः । मद्रासस्य 'आर्यवैश्य- समाजः' तथा राजमहेन्द्री जनसाधारणाश्च स्वामिने अभिनन्दनपत्रे प्रददिरे ।
- १८६७ ई० मार्चमासस्यान्तिमभागे स्वामिविवेकानन्दः स्वसती
स्वामिरामकृष्णानन्दं तथा निजसंन्यासिशिष्यसदानन्दं प्रचारार्थं मद्रासनगरं प्रेषयामास ।