युगाचार्य-विवेकानन्दः संन्यासिना भवितव्यम् । मम हस्ते संन्यासग्रहणस्यैका महती रेखा वर्तते । अहम् साधुमेकं स्वहस्तमदर्शयम्, तदा तेनेत्थं प्रोक्तम् ।” सहचरास्तस्य संन्यासग्रहणवृत्तान्तमाकर्ण्य विस्मयमगच्छन् । तस्याभ्यन्तरे संन्यासिनो रक्तमासीत् । तस्य पितामहो दुर्गाचरणदत्तः पञ्चविंशतिवर्षावस्थायां विपुलधनमानयशः परित्यागपुरस्सरं शिशु पुत्र विश्वनाथं च विहाय संन्यासी बभूव । दर्शनेऽनेकविधया नरेन्द्र नाथोऽपि स्वपितामहसदृश एवाभवत् । अतः परिवारजनानामयं विश्वासोऽभूद् यद् दुर्गाचरण एव शरीरं परित्यज्य नरेन्द्ररूपेण जन्म जग्राह पशशालां सहृद्वात्सल्यं नरेन्द्रस्वभावस्यान्यतमं वैशिष्टयमासीत् । बन्धूनां कृते त्यागाङ्गीकारे तस्यासीन्महानानन्दः | एकदा अष्टवर्षदेशीयो नरेन्द्र- नाथः स्वसहचरानादाय 'मटियाबुरुज' - स्थाने लक्ष्मणपुरस्य (लखनऊ) भूतपूर्वनवाब वाजिदअलीशाहस्य निरीक्षगच्छत् । चाँदपाल-घट्टात् नौकामारुह्य तत्र गमनं क्रियते । गंगाया उपरि सर्वे जना महताऽऽनन्देन कोलाहलं कुर्वन्तो जग्मुः । यतः सर्वे बालका एव | नौकारोहणाभ्यासः कस्यचिदपि नासीत् । तरी डगमगायमाना- ऽभवत् । परावर्त्तनकाले एक: सहचरो बालकः सहसाऽस्वस्थो भूत्वा नौकायामेव वमनमकरोत् । कैवर्त्ता माहम्मदाः प्रज्वलितक्रोधानयो तान् हन्तुमुद्यता अभूवन् | ते निर्भर्त्सयन्तो जगदुः– “नौका स्वच्छीक्रियताम्, अन्यथा कमपि अवतत्त मादेशं न दास्यामः ।" बालकैरुक्तम् – “द्रव्यं दीयते, केनापि युष्माभिः स्वच्छीक्रियताम् ।” परन्तु कैवर्त्तस्तेषां किमपि न श्रुतम् । संघर्षानन्तरं घातप्रत्याघातावसरः समायातः | h
- श्रीरामकृष्णदेवो यदा नरेन्द्रनाथं संन्यासधर्मे दीक्षितमकरोत् तदानीं
तस्यावस्था चतुर्विंशतिवर्षदेशीया आसोत् । श्रीठाकुरस्य देहपरित्यागानन्तरं बराहनगरमठे आनुष्ठानिकभावेन तेन संन्यासदीक्षा गृहीता | तस्य बाल्यकालीन- स्वप्नः फलीभूतोऽभवत् ।