२७३ स्यात् ।” युवकान् विश्वासभाजनानि युगाचार्य-विवेकानन्दः सम्बोव्य सः अकथयत् – "द्विसहस्रं वीरहृदयाः सच्चरित्रा मेधाविनो युवानः एवं त्रिंशत्कोटि- रूप्यकाणि च यदि प्राप्यन्ते तदाऽहं भारतं यथार्थतया जागृतं कतु शक्नोमि ।..." भारतवर्षे सः स्वल्पान्येव भाषणानि दत्तवान् | तस्य विशिष्टं कार्यमासीत् “भूसंशोधनम् ।” सः भारते 'भूमिं संशोध्य' तां उर्वरां अकरोदपि । भारतस्य कल्याण-चिन्तायां यदा स मग्नो बभूव, तस्मिन्नपि प्रसंगे तस्यां भूमौ वपनार्थं स वायुमण्डले बीजानि अकिरत् । वर्तमानभारतस्यो- परन्तु कृषिफलसमागमं स स्वल्पमेव द्रष्टुमशकत् । नतौ तां फलसमृद्धिं सम्प्रति भारतवासिनामन्तरे यत् परिवर्तनमाययौ तत् स्वामी विवेकानन्दः भारते यां जागर्ति उदपादयत् तस्या एवेदं फलमस्ति । वयमवलोकयामः । विंशशताच्या पाचशेषु प्रारब्धं निजकार्य न व्यस्मात् । यत्तस्योपर्येव भारतोन्नतिः बहुलतया आस्थिता । तस्य स्वास्थ्य सौष्ठवाय दीर्घौ विश्रामः तथा वायुपरिवर्तनस्य अपरिहार्यावश्यकता आस्त । तदर्थं भिषजां परामर्शेन स समुद्रयात्रायै सन्नद्धो बभूव । अधुना सहचरत्वेन स्त्रामिनं तुरीयानन्द गृहीतवान् । निवेदिता नारीशिक्षा- कार्यार्थं धनसंकलनाय इङ्गलन्डगमनाय सन्नद्धा बभूव । साऽपि स्वामिना सार्धं प्रस्थिता । १८६६ ई० वर्षे जूनमासे २० तारिकायां 'गोलकुण्डा'- महाप्लवेन कलिकत्तातः प्रस्थाय सर्वेऽपि मद्रास कोलम्बो एडेन नेपल्स- मार्सलमार्गेण ३१ तारिकायां जुलाईमासे लन्दनमवापुः । 'स्टीलबेरी-डक्' इत्यत्र अनेके भक्ताः एवं सुहृदः स्वामिनः अः स्वागतमाचरन् । द्वौ अमेरिका- शिष्यावपि डेट्रएट-नगरात् तं नेतुमागच्छताम् । लन्दनस्य साधारणसभायां अस्मिन् पर्याये स्वामी किमपि भाषणं नादत्त ; तथापि मित्रवृन्दस्य संमर्दः समवेतः । अगस्तमासे १६ तारिकायां १८
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति