पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्यं-विवेकानन्दः जाता। परेद्यरेव सेवियरमहोदयस्य जन्मदिनमासीत् । यदि सोऽजी- विष्यत् तदा तस्य वयोमानं षट्पञ्चाशत् वर्षाण्यभविष्यत् । स्वामिपादस्तु , पञ्चदशदिनानि तत्र मायावत्यामनयत् । सेवियर- पत्न्या सह संलापातिरिक्तं आश्रमस्थैः साधुभिः सह बहूनि गुरुत्व- पूर्णानि संलाप-समालोचनान्यन्वहं तस्य सञ्जातानि आसन् । आश्रम- मध्यासीन एव चिरतुपार मण्डिताभ्रभेदीनि गिरिशृङ्गाणि समालोक्य स्वामिमहोदयो ध्यानलग्नोऽभवत् । एकदा स सेवियर रमणीमाह स्म, यत् "अहं जीवनत्यान्तिमे भागे सर्वमन्यत् कर्मजातं विहाय अत्रैव स्थास्यामि | ग्रन्थविरचनं सङ्गीतालापं च समाश्रित्य कालं नेण्यामीति ।” २८१ मायावतीमध्युष्य तेन नानादेशानां बहूनां कार्याणां निर्देशो देयः, बहूनि च पत्राणि लेखनीयानि आसन् । “प्रबुद्धभारतार्थं " त्रय एव सुचिन्तिता: सन्दर्भास्तेन रचिता जाताः । ते च–“आर्य जातिः तामिलजातिश्च” “सामाजिक समस्यासभायाः अधिवेशनप्रत्युत्तरम्, “थियोसफी सम्बन्धिमन्तव्यं च” इति । एतत् सन्दर्भत्र्यातिरिक्तं " ऋग्वेदस्य "नासदीय सूक्त "स्य मनोज्ञोऽनुवादोऽपि तेन तत्रैव स्थित्वा व्यधायि । स्थानस्य स्वाभाविकोच्चताप्रभावेण मायावत्यां सः अत्यधिक श्वासकष्टमनुभूय इवासरोगेण (दमा) निरतिशय-पीड़ितो जातः । तादृशदुर्योगमध्यत एव जनवरीमासस्याष्टादशदिने स परित्यज्य चतुर्थेऽहनि समायां भूमौ पोलीभीतनामकस्थाने वाष्पीययानमारुरोह । किन्तु स स्वसङ्गिनं गुरुभ्रातरं पुरुष ! सम्प्रति त्वम् अस्मान् विहाय गच्छ ।” - . मायावतीं समागत्य “भोः महा- शिवानन्दमवदत्, बेलुडमष्ठार्थ अर्थान् संग्रहोतुमेव - तत्प्रसंगेन स्वामि-महोदयस्तु आह स्म- "बेलुडमठस्य सर्वे संन्यासिनो भारतवर्षस्य चतुर्दिक्षु धर्मप्रचारं लोकानाञ्च शिक्षादानं कुर्वन्तः समन्तात् भ्रमिष्यन्ति । एवञ्च मुद्राणां सहस्रद्वयमन्ततः संगृह्य मठस्य धनागारे रक्षिष्यन्तीति ।” स्वामिशिवानन्दोऽपि