युगाचार्य - विवेकानन्दः तस्य बाल्यजीवन एव मुकुलितत्वमदृश्यत | बाल्य एव शतशो लघु- गुरुघटनावलीनां समष्टिरूपो बभूव - भावी विवेकानन्दः । - 7 स्कूलस्य पाठाभ्यासे तस्याधिकसमयस्यावश्यकता नासीत् अवशिष्टसमये स्वीयवयसोऽनुसारेण विविध विषयपुस्तकान्यधीत्य स्वीयज्ञानराशिं सोऽवर्धयत् । साहित्यमितिहासं च प्रति तस्य रुचि- रधिका बभूव । परीक्षाया द्वित्रमासाभ्यन्तरत एव स परीक्षाप्रदानाय प्रस्तुतोऽभवत् । प्रतिवर्षं च ससाफल्यमुत्तीर्णो बभूव । तस्य शरीरं नितरां बलवदासीत् । अवस्थया वर्धितयैव सह आङ्गलव्यायामे (जिमिनास्टिक ), मुद्गरभ्रामणे, करवालचालने, दण्ड- बैठकव्यायामे, मल्लयुद्धे, दण्डचालने, कन्दुकक्रीडने, सन्तरणे, अश्वा- रोहादिकार्येषु च स विशेषदक्षोऽभवत् । पाकशास्त्रे संगीते हासपरि- हासादिविषयेषु चासौ निपुणो बभूव । विश्वनाथदत्तेन स्वपुत्रजीवन- परिपूर्णविकासाय सर्वविधं साहाय्यं प्रदत्तमभूत् । २० नरेन्द्रनाथश्चतुर्दशवर्षावस्थायां प्रविष्टः । 'मेट्रोपॉलिटन'- विद्यालयस्य तृतीयकक्षाया असौ छात्र आसीत् । विश्वनाथदत्तः केनापि कार्येण - ॐ शारीरिकोत्कर्षलाभसम्बन्धे स्वामी महोदयः प्रत्यवादीत् – “शारीरिकी दुर्बलतैवास्माकं दुर्दशाया एकं प्रधानं कारणम् । देशस्य युवकैः सर्वतः पूर्व वीर्यशालिभिर्भवितव्यम्। धर्मस्य वार्ता तदनन्तरमास्ते । तरुणभ्रातॄणां सम्बन्धे ममायमुपदेशो यद् भवन्तः सर्वे बलशालिनो भवन्तु । युष्मदवस्थायां गीता- पाठापेक्षया कन्दुकक्रीडैव युष्मान् स्वर्गस्याधिकसमीपस्थान् विधास्यति ।... बलवता शरीरेण यदा यूयं मानवा इव शिरांस्युन्नमयन्तः सुदृढं स्थातुं शक्ष्यथ, तदैवोपनिषद् आत्मनश्च महत्त्वं सुष्टुरूपेणावधारयितुं पारयिष्यथ । अतो युवकानां चरित्रघटनायापेक्षितम्- लौहवन्मांसस्नायूनां मध्ये वज्रकठिनं मानसम् । वीयं, मनुष्यत्वं, क्षात्रवीर्यं, ब्रह्मतेज ति सर्वमपेक्षित मास्ते ।”
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति