पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९५ युगाचार्य-विवेकानन्दः लोकानां समागमो जातः । तत्र बहवो नरा नार्यश्च अन्नप्रसादभोजन- रताः । भूयो भूयो महाराजस्य श्रीगुरोः ( श्रीरामकृष्णदेवस्य ) जय- ध्वनिरुदतिष्ठत् | स्वामी पुनर्नरवमवस्थानं न सहते स्म । अतिकृच्छ्रेण गवाक्षस्य लौहदण्डमाश्रित्य दण्डायमानो जातः । परं च विह्वलनयनः समवेतभक्त मण्डल मभिदृष्टिं निक्षिप्य समवतस्थे । अधिककालं तथा अवस्थातुं न शशाक। अहो ! श्रीरामकृष्णस्य नाम्नैव एतावतां जनानां समागमो जात इति विचिन्त्य शय्यामधिशेते स्म । सेवकस्तु तस्य शिरसि समीर-संचालनाय प्रवृत्तः । अपराह्णे लोकसङ्घमेलनं यदा शिथिलितं जातं तदा तस्य गृहगवाक्ष उन्मोचितो जातः । स हि स्वगृहमध्युष्यैव सर्व उत्सवस्य अन्तिमं दृश्यं द्रष्टुं प्रवृत्तः । -०-०