पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ तस्य अनेनैव विधिना मार्चाख्यो मासो व्यतीतो जातः । इतोऽधिकं मासत्रयं सोऽस्मिन् मर्त्यधानि न्यवसत् । कदापि शरीरं स्वस्थं बभूव कदापि वा अस्वास्थ्यं वर्द्धितमभवत् । स रोगस्य समुपहितावस्थायाम् भारतस्य पुनर्जागरणचिन्तामकरोत् । सा चिन्ता सदैव मनोव्याकुलतंचकार । १८६५ सृष्टान्दे एकादशे जानवारीदिने शिकागोनगरात् स्वामी कञ्चन माद्राजप्रदेशीयं शिष्यमलिखत्- “. यावत्कालं मम देहविमोको न जातस्तावत् सदैव कर्माणि कुर्वन्नेव चरिष्यामि । एवञ्च मृत्योः परमपि जगत्कल्याणाय कार्य करिष्यामि । सुमहदपि कार्यजातं केवलं स्त्रार्थत्यागेनैव सम्पद्यते ।” उत्तिष्ठत, जाग्रत इति ।* स्वामिनः कार्य चिन्ताजगत्येव प्रसारितमासीत् । स जगत्कल्याणाय यानेव विचारप्रवाहानरक्षत्, ते फलप्रसवमन्तरेण मुधा न नंक्ष्यन्ति । परवर्त्तिनो जनाः स्वामिनः भावेन अनुप्राणिता एव तदीयमारब्धं कार्य- जातं स्वशिरस्सु एवारोपयिष्यन्ति । मृत्योः परमपि तदीयः अलक्ष्य-

  • स्थूलदेहत्यागात् परमपि स जगत्कल्याणायैद सूक्ष्मदेहेन कार्यं करोति ।

एतावतीं महतीं जीव-कल्याणप्रेरणां श्रीविवेकानन्दस्य प्राणेषु श्रीश्रीरामकृष्णदेव एव प्रबुद्धामकरोत् । असावेव काशीपुरस्थित उद्याने देहं संसारञ्च विस्मृत्य निर्विकल्पे समाधौ निमज्जनस्य प्रार्थनां श्रीश्रीरामकृष्णदेवचरणपद्मे कृतवान् ।