पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

` युगाचार्य-विवेकानन्दः सम्पादयितु बहुशोऽचेष्टत । किमपि न फलं दृष्टम् | मध्यरात्रेः परं चिकित्सकोऽवदत्, “स्वामी महासमाधिम विन्दत ।" ३०१ प्रातः बहूनामेव जनानां मठे सम्मेलनं जातम् । नरा नार्यश्च स्वामिन अन्तिमदर्शनार्थं समश एब मठे समागताः । दिवाद्विवादनातू परं स्वामिनः पूतदेहः खट्वोपरि निम्नभूमौ अवतारितो जातः । अन्तिम कृत्यादिकं यथाविधि निर्वर्त्य स्वामिनः देहं नवीनेनैव गैरिकवसनेन पुष्पमाल्यादिभिश्च सज्जीकृत्य शङ्खघण्टाध्वनिं कुर्वन्त एव भक्ताः कर्पूरैर्धूपैश्च तस्य आरार्तिक्यं चक्रुः । गुरुभ्रातरः संन्यासिनो ब्रह्मचारिणश्च शिष्यवृन्दं एवमन्ये च भक्ता नरा नार्यश्च स्वामिनः शरीरं प्रदक्षिणी- कृत्य तदीयपादपूजामकुर्वन् । ततः श्रीगुरुमहाराजस्य स्वामिनः च जयध्वनिभिः सह शोभायात्रां कुर्वन्तो जनाः मठस्य पूर्वदक्षिणदिशि, बिल्ववृक्षस्य पार्श्वे तेनैव निरूपिते स्थाने जाह्नवीकूले, तदीयदेहं समानीय चन्दनकाष्ठैः सुसज्जितचितायां समारोप्य, वैदिकमन्त्रपाठ कुर्वन्तो नानास्तवादिकं पठन्तः अन्त्येष्टिक्रियां समापयामासुः । *

  • १६०२ ईसवोयस्य जुलाईमासस्य चतुर्थेऽहनि स्वामिचरणः शरीरं

जहौ । तदा तस्य वयोमानं पञ्चमासाधिकत्रयोविंशतिदिनाधिकानि ऊनचत्वा- रिंशद् वर्षाण्येव । ढाकानगरे एकदा स प्राह; "यद्यधिकं स्यात् इतः परं वर्षमेकं स्थास्यामीति ।” समयान्तरे स अवदत् – “चत्वारिंशतः परं न स्थास्यामीति ।” श्रीअमरनाथ-शिवस्तस्मै स्वेच्छामरणवरमददात् । , परेयुः स्वामिनः भस्मीकृतदेहस्य सञ्चितान्यस्थीनि भविष्यद्-वंशधरेभ्य एव सुरक्षितानि । तदेव भस्मास्थि नित्यमेव बेलुडमठे समर्चितमस्ति । स्वामिचरणस्य चिताशय्याया उपरिष्टादेव तस्य समाधिमन्दिरं निर्मायते स्म । स्वामी रामकृष्णानन्दस्तु माद्राजदेशे तस्यामेव रात्रौ ध्यानसमये स्वामिनः परिचितं कण्ठस्बरमशृणोत्; स ( स्वामी ) प्राह "भोः शशिन्, शशिन् ! शरीरं तदहं निष्ठीवनमिव दूरं न्यक्षिपमिति ।”