युगाचार्य-विवेकानन्दः प्रत्यहं व्यवहृतौ परं परं मन्यसेन किमिति त्वमंशभूतोऽस्यविन। शिवस्तुनः अतः स्वकीयां स्वबान्धवम् ।।१०६|| समष्टि रेषाप्यविनाशिनी प्रकृतिं विभावयन् समष्टि सेवामिह मता । कर्तुमर्हसि || ११०।। मानवे मानवे मान्या दिव्यता यादितः स्थिता । प्रकटीकरणं तस्या धर्म इत्युच्यते बुधैः ||१११ ।। नोच्चैर्वादा नापि सिद्धान्तधारा नाप्यस्माकं चारुनानामतानि । धर्मः, किन्तु स्वानुभूतेरवाप्तिः किं चैतस्याः कार्यजाते प्रकाशः || ११२ ॥ प्रार्थनायाः सिद्धिप्राप्त्यै केवलं सन्त्युपाया: । साक्षात्कारः स्वात्मनो दिव्यताया मूर्तिर्ग्रन्था मन्दिरे यदा उच्चैर्ध्येयं या हि नित्यं पुरस्तात् ||११३|| संतोष: स्यात्क्षणिक सुखतुच्छेन जगता घृणा दृष्ट्वा लोके कपटपरिपूर्णां व्यवहृतिम् । यदा च द्वेपः स्यादनृतवचने नास्तिकजने ३२६ तदा धर्मापेक्षं भवति खलु सश्रद्धहृदयम् ||११४।। अवाप्य ज्ञानमीशस्य चिन्तनं तस्य नित्यशः । प्रत्यक्षं तेन सम्भाषा प्रोच्यते धर्मलक्षणम् ॥ ११५ । स्नेह : सम्पूर्णसंसारे स्थितप्राणिषु निर्मलः | उदारता तथा तेषु धर्मस्य निकषः स्मृतः ||११६||
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति