युगाचार्य - विवेकानन्दः - तस्यात्यन्तक्षीणम् आभासमात्रं पाश्चात्त्यानि दर्शनानि प्रापुः – पाश्चात्त्य - दार्शनिकैः पूर्णसत्योपलब्धिर्न कृता ।” २४ प्रतिभामण्डितः सदाऽऽनन्दमयो युवको नरेन्द्रनाथोऽल्पोयोभि- रेवाहोभिः कालेजस्य विद्यार्थिनामध्यापकानां च विशेषप्रियपात्रता- मगच्छत् । तस्यातुलनीया प्रतिभा, पाण्डित्यं, निर्मलस्वतन्त्र विचार- धारा, तर्कशक्तिः, भावप्रकाशनरोतिः सुमधुर संगीतं चेति सर्वानेव मुग्धान् विदधिरे । यत्रासावगच्छत् तत्रैव तस्य व्यक्तित्वं प्रचकाश, यत्रैव स्वकरं न्यक्षिपत्, तदेवाभिनन्दनीयं सुन्दरं चाभवत् । रसिक आमोद प्रियः प्राणशक्तेर्विपुलप्रस्रवणो नरेन्द्रनाथो दलनेता बभूव । स यत्र कुत्रापि येन केनापि सार्धममिलत्, सर्वेषामप्यन्तःकरणे आनन्दलहरोमुदपादयत् । कालेजस्य सर्वेऽप्यन्तेवासिनस्तस्य मित्राण्य- सर्वानप्यसौ प्राणप्रियानवागच्छत् । सर्वेऽपि सर्वस्मिन्नपि तमेव निर्विभ्रति । पवित्रतैतस्य चरित्रस्य श्रेष्ठो गुणः । नतोऽसावगमात्रमपि न विच्युतोऽभवत् । वेशभूषायामसौ नितरां साधारणो बभूव । शरोरेण मनसा वचसा च पवित्रतैव तदीयजीव- नादर्श: । स यत् किमप्यकरोत् पर्याप्तमात्रयैव । अत एव मित्राणि भूवन् । विषये
- विश्वनाथदत्तो गृहेऽभ्यहिंतान् गुरून् रक्षित्वा नरेन्द्रनाथमुच्चाङ्गसङ्गी-
तान्यशिक्षयत् । तस्य सुमधुरकण्ठध्वनिः सर्वानप्यानन्दितहृदयानकापत् । श्रीराम- कृष्णदेवस्तस्य सङ्गोतं शृण्वन् नितरां प्रीतिमापन्नो बभूव । तदोयं गान- माकर्णयतस्तस्य मानसमतीन्द्रियराज्यमुपढौकमानं समाधिस्थमभूत् । तेन ( स्वीयं शरीरं दर्शयित्वा ) उक्तम् – “अस्याभ्यन्तरे यस्तिष्ठति स नरेन्द्रस्य गान - माकर्णयन् फूत्करोति ।” अर्थात् तस्य कुलकुण्डलिनी शक्तिर्जागतिं प्रत्यपद्यत । नरेन्द्रनाथ: संगीते यथा दक्षः, तथैव तबला-मृदङ्ग-तंत्रीवादनेऽपि सिद्धहस्त आसीत् । नृत्यमप्यसौ साधुरीत्या जानाति स्म ।