३३१ तस्मिन्दिने स्वामि विवेकानन्दोपदेश द्विशती भारतभाग्यसूर्यो ऽप्यस्ताचलं गन्तुामव प्रवृत्तः ॥१४१॥ कर्म कर्मच) आत्मभावविकासस्य कारणं कर्मसंज्ञितम् । अनात्मभावो येन स्यात् तदकर्मेति संस्मृतम् ॥ १४२|| सबलाः कार्यकर्तारो विश्वं जेतुमलं दश । सहस्रशोऽपि वैधेया न समर्था भवन्ति ते ॥१४३ ॥ नरः पशनरत्वमाप्नोति सत्कर्मवशतः परम् । पशत्वं लभतेऽसत्कर्मवशतोऽवशः ॥१४४॥ ( स्त्री-महिमा ) जातान्यजातिषु जगत्यबलोन्नतिर्या सा योषितां किल सुयोग्यपदस्य लाभात् । याधोगतिश्चिरमभूदिह भारतेऽस्मिन् सा शक्तिरूपमहिलासु निरादरेण ||१४५|| ( मानवोन्नतिः ) समानाधिकारा जना जीवने स्युः परं दुःखिता जन्मतो जातिभेदात् । अतः कर्मणो वर्ण इत्येव सत्यं समाजोन्नतावरित धर्मोच्चतत्त्वम् ||१४६|| अयि ! कठोरतरं खलु जीवनं तनुतरं क्षणजीवि च पिहितमस्ति तत्फलम् । तवाग्रमथाप्रभं तदपि धीरतयाग्रसरो भवेः ॥ १४ ॥
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति