युगाचार्य- विवेकानन्दः जगदुः । अखण्डब्रह्मचर्यपालनस्य फलस्वरूपतस्तस्य शरीरे मनस्ये- तादृशमेकमाध्यात्मिकं तेजो विचकास, यस्याभिमुख सर्वेऽपि जना नतमस्तका अवोभूयन्त । २५ प्रायशस्तं पवित्रतावादिनं नियमितध्यानधारणाप्रार्थनादीनां पित्रोः शिक्षणमादर्शजीवनं च नरेन्द्रनाथस्य चेतसि प्रभूतप्रभावं व्यस्तारयत् । पितुर्विद्या, बुद्धिः, सहृदयता, दया, उदारता, स्वतन्त्र- विचार: परदुःखकतरता, महानुभावता च नरेन्द्रनाथं मुग्धमकुर्वन् । तस्य जननी शिक्षिता महीयसी महिला आसीत् । धर्मप्रवणता, वदान्यता च तस्याश्चरित्रस्य विशेषता बभूव । परवर्त्तिनि काले नरेन्द्रनाथः प्राइ – “मम माता मदीयजीवनकर्मणोर विरामप्रेरणाप्रस्रवण- स्वरूपा बभूव " पुत्रस्य विश्वनाथ दत्तस्य शिक्षाशैली अनुपमा आसीत् । स कदापि पुत्रस्य शासनं ताडनं वा नाकार्षीत् । प्रत्येक कार्यस्याभ्यन्तरेऽसौ आत्ममर्यादाबोधमकारयत् । नरेन्द्रनाथेनैकदा क्रोधेन मात्रा सार्धं कलहं कुर्वता तां प्रति कुटुवाक्यनि प्रोक्तानि । यदा विश्वनाथदत्तोऽशृणोत्, तदा पुत्रं न किमपि प्रोवाच । केवलं यस्मिन् प्रकोष्ठ पुत्रो निवसति, रोपर गुरुभिरक्षरैरसौ लिलेख – “बाबूनरेन्द्रः स्वोथां मातरमद्य एतादृशं वाक्यमकथयत् ।” मित्राण्यागत्य तल्ल खमपश्यन् । आत्मग्लान्या लज्जया च नरेन्द्रस्य मस्तकमानतमभूत् । द्वितीय दिनस्यैका घटनाऽस्ति । पुत्रं प्रति पितुः कर्त्तव्यस्य सम्बन्धे बाबूविश्वनाथो विशेषतः सावधानो बभूव तथापि नरेन्द्रनाथस्तेन
- अमेरिंकातस्तेन लिखितमसीत् – “यदा ममावस्था विंशतिवर्षदेशीया
अभूत्, तदा ममाभ्यन्तरे समज्ञताया भावस्यात्यन्तमभावो बभूव । सर्वस्मिन् श्रपि विषये ममैव पक्षपातिताऽऽस्ते स्म । कलिकत्ताया यत्रोपमार्ग अभिनयगृहं, तेन पथा मया कदापि न गम्यते स्म | "