पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७१ स्वामिविवेकानन्द स्तोत्राणि स्वामिपादश्रीश्री विवेकानन्दस्मरणम् * यदा धर्मो ग्लानिं वहति बहुधा दुर्गतिवशा- दधर्मा वर्धन्ते जगति जनदुःखाय महते । तदा दीप्तप्रेमा किमपि वपुराधाय भगवान् विनेतुं दौर्गत्यं चरति सुचिरं क्षोणिवलये ॥ १॥ स्वदेशप्रीत्या यो विमलतमनीत्या प्रथितया कयाचिद्विख्यातो जगति बहुमानं खलु भजन् । प्रियो नः सौभाग्यादजनि धरणौ भारतनृणां विवेकानन्दोऽसौ जयति यतिवृत्तान्त विबुधः ॥ २॥ विदित्वा वेदान्तं विविधविधिशान्तं सुमनसां तपः स्मारं स्मारं मुनिनियमसारं परिचरन् । चरन् देशे देशे निरदिशदहो तत्त्वमतुलं विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥३॥ यदीयो वेदान्तः प्रथमनवसिद्धान्तमहिमा हिमार्तानां दीप्तो रविरिव ददे शान्तिमसमाम् । य एकः प्रोद्दीप्तः प्रतिभयजडं धर्ममतनोत् विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥४॥ पवित्रे चारित्रे निरवधिविनीतेन विधिना सुविज्ञातो लोके विविधविधिमार्गानुपदिशन् । महामोहध्वान्तं सपदि लयमानीय महसा विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥५॥

  • उद्बोधनपत्रिकातः स्वत्वाधिकारिणामनुमतिक्रमेण त्रयोविंशतिवर्षस्य

दशमसंख्यायाः संगृहीतम् ।