युगाचार्य-विवेकानन्दः व्याख्यानादिश्रवणेन स तद्गुणमुग्धो बभूव । परमसौ यद् वस्तु समीहितवान् यस्यामवस्थायां स्थातुमैच्छत्- "यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । २९ यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते”—# एतस्या अवस्थाया अधिगतिं विना नैव तदीये मनसि शांति- रासादयितुं शक्यते स्म । ब्राह्मसमाजे न तेन तादृशी शान्तिरधिगता । अध्ययनं प्राचलत्, परन्तु हृदयमव्यक्तवेदनया सम्भृतं बभूव | कठोरं ब्रह्मचारिव्रतमङ्गीकृत्यासौ भूमौ शेते स्म । आहारे वेशभूषायां च संयतो भूत्वा ध्यानेन समस्तामपि निशां निनाय । हार्दिक आवेगस्तमशांत- मकरोत् । स कुत्र गच्छेत् कश्च सच्चिदानन्दब्रह्मसमुपलव्धये मार्ग- मादेक्ष्यति ? , महर्षिर्देवेन्द्रनाथ ठाकुर एक शक्तिशाली पुरुषो महान् धार्मिको नेता आचार्यश्चाभूत्, उपासनाध्यानभजनसौविध्यहेतवे महर्षिस्तदानीं काले कलिकत्तायाः सन्निधौ गंगाया उपरि नौकाया मेकस्यामतिष्ठत् । एकदा नरेन्द्रनाथ उन्मादग्रस्त इव नौकायां प्रविश्य महर्षि पृष्टवान् – “महाशय, किं भवता ईश्वरो दृष्टः ?” - सम्भवतो महर्षिः प्रश्नमेतं समाधातु प्रस्तुतो नासीत् । तेन क्षणं विलोक्य युवकः प्रोक्तः– “त्वदीये नयने योगितुल्ये ।" महत्या आशया सहासौ महर्पेरभ्यर्णमगच्छत् । किन्तु किमपि नासाद्य निराशो भूत्वा निववृते । तस्याशान्तिरान्तरिको नितरां बवृधे कुत्र प्राप्स्यते स तत्त्व- दर्शी पुरुषो यः किल शान्तिमार्ग दर्शयिष्यति ? प्राचीनानाम् आर्य- महर्षीणां प्रश्नस्तमान्दोलितमकरोत् । इममेव प्रश्नं शौनकः अङ्गिरसं पप्रच्छ – “कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ?” – ऋषिरेतस्य प्रश्नस्योत्तरं वेद । अतस्तेनोक्तं – “द्वे विद्ये वेदितव्ये इतिह - ।
- गीता ६|२२