पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिविवेकानन्द विरचितस्तोत्रादीनि भ्रातर्नाशय बन्धकं स्वनिगडं हैमं भवेद्वायसं प्रेमेर्षासद सत्स्वरूप मखिलं द्वन्द्वं परित्यज्यताम् । दासौ पूजितदण्डितावपि समौ यत्कांचनं बन्धनं स्थेयो धीरयतेरित गायतु भवानोंतत्सदोमित्यदः ॥ २ ॥ या त्वज्ञानमरीचिकान्धतमसं संवर्धयन्ती भृशं मृत्योर्मृत्युमभीक्ष्णमानयति या तामैहिकेहां त्यजेः । 'विश्वं जेतुमलं कृतात्मविजयो' जानन्निदं दुःखितो मा भूर्धीरयतेऽद्य गायतु भवानोंतत्सदोमित्यदः ||३|| “भोग्यं कर्मफलं” ब्रुवन्ति नियतं कार्य निदानात्सतः हेतोः सत्फलमेत्यसत्तदसतो, बाधो न विध्याश्रयः । रूपं बन्धनवत् तथापि नितरां त्वं नामरूपातिगो मुक्तात्मा, ननु गीयतां स्थिरयते ! ॐ तत्सदोमित्यदः ॥४॥ यन्मित्रं जननी पिताथ तनयस्तत्स्वप्नतुल्यं वृथा माता कस्य सुतोऽथ मित्रमथवाऽलिङ्गः स एकोऽस्ति चेत् । सर्वः सर्वगतः स एव न परं किञ्चित्ततो विद्यते सत्त्वं धीरयतेऽसि, गायतु भवानतत्सदोमित्यदः ||५|| लाञ्छननामरूपरहितो मुक्तस्तथा चिन्मयो माया यं समुपाश्रितावसृजति स्वप्नेन तुल्यं जगत् । सत्त्रिगुणात्मकप्रकृतिवद्रूपेण संलक्ष्यते एको साक्षी सत्वं धीरयतेऽसि, गायतु भवानोंतत्सदोमित्यदः ||६|| भ्रातर्मुक्तिमिमां क वा मृगयसे ? नायं न लोकोऽपर- स्तद्दाता न च लभ्यतेऽत्र भवता शास्त्रे तथा मन्दिरे । हरतेनाकलिता त्वयैव रशना याकर्षति त्वामिमां त्यक्त्वा धीरयतेऽथ गायतु भवानोंतत्सदोमित्यदः ||७||