युगाचार्य - विवेकानन्दः - म यद् ब्रह्मविदो वदन्ति - परा चैवापरा च । तदक्षरमधिगम्यते अथ परा यया ।”* किन्तु कस्तं पराया विद्याया मार्गमादेक्ष्यति ?
३० एतस्मिन्नन्तद्वन्द्वकाले तदाभ्यन्तरिको देवस्तदर्थं मार्गस्येङ्गित- मकार्षीत् । अनन्तरं तेन प्रोतम् – “यौवने पदमर्पयतो मम तदनन्तरं प्रत्येकं रात्रौ शयानस्यैव मदीयनयनसम्मुखं कल्पनाद्वयं जागरणं गतमभूत् । एकस्यां कल्पनायां परिदृश्यते म्म यन्मया बहुविधजनधन- सम्पत्सम्मानादिकं समुपलब्धम् । संसारे ये महान्तो जनाः समा- ख्यायन्ते, अहं तेषां शीर्षस्थानमिव समारूढोऽस्मि । एतत् प्रतीयते स्म यत् तादृशसम्पन्नताशक्तिः सत्यमेव मयि वर्तते । द्वितीये क्षणेऽह मपश्यम् यदहं सांसारिकं सर्वस्वं परित्यजन्निव केवलमीश्वरेच्छां निर्विवत् कौपीनं धारयित्वा यहच्छा.लव्धभोजनसन्तुष्टो वृक्षतले रात्रि यापयन जीवनं व्यतिगमयामि । एवं विज्ञायते यदहं यथेच्छं तेन प्रकारेण ऋषिमुनिवत् जीवनयापने समर्थोऽस्मि । एतादृशद्विविध- कल्पनायां समुदीयमानायामन्तिमा कल्पनैव मदीयहृदयेऽधिकार- मकरोत् । मया विचारितं, परमानन्दलाभस्यायमेव मार्गः । एतेनैव मार्गेणाहं गमिष्यामि । तद्भूमानन्दविषये चिन्तयतो मम मानस- मीश्वरचिन्तायां निमग्नमभूदहं च शयनमकार्षम् । आश्चर्यविषयोऽयं यद् बहूनि दिनानि यावत् प्रतिदिन मेवमेव सम्पद्यते स्म । ·
- मुण्डकोपनिषद्, १११॥४-५
+ तेनान्यस्याप्येकस्य विषयस्य समुपलब्धिः कृता, यो न साधारणो विषयः । निद्रायाः प्रागधोमुखं शयानोऽसौ नेत्रे निमीलयन्नेव भ्र मध्यस्थितमेकं ज्योतिः- पिण्डं ददर्श | तज्ज्योतिश्च क्रमेण विविधं रंगरूपं गृहत् तस्य समस्तमपि शरीर- माच्छन्नमकरोत् । स हि तदखण्डज्योतिःसमुद्र स्नात्वा शेते स्म । बहोः काला- दनन्तरं मित्रैः सह वार्तां कुर्वन् असौ ज्ञातवान् यत् शयनात् पूर्व तेषु कस्यापि तादृशं दर्शनं नाजायत ।