युगाचार्य-विवेकानन्दः औपनिषदा ॠपयस्तस्य हृदये समुपविष्टा इव तमशिक्षयन्- “न कर्मणा न प्रजया धनेन, त्यागेनैके अमृतत्वमानशः ।" अय- ममृतत्वलाभमार्गो हस्तेङ्गितेनेव तमाजुहाव । तस्य समयस्य किञ्चिदनन्तरं पूर्व वा अपूर्वमेकं दर्शनं तदीय- मनोराज्ये युगान्तरमुपास्थापयत् । तदानीमसौ सुदीर्घकालं ध्यान- मकरोत्, सच्चिदानन्दस्य ब्रह्मणो ध्यानं तस्य प्रियमभूत् तेनासौ महान्तमानन्दमलभत | एकदा स्यानन्दस्यावेशे तदानीमपि - गम्भीरध्यानस्यानन्तरं तस्याव्यक्त- विमुग्धो भवन् ध्यानासने समुपविष्ट आसीत् । सहसैव तेनावलोकिंतम् - दिव्येन ज्योतिषा गृहं परिपूर्ण- मभवत् । एकस्यापरिचितस्य संन्यासिनो मूर्त्तिराविर्भूयाप्रतस्तिष्ठति । तस्यांगे गैरिकं वसनं, हस्ते कमण्डलुर्मुखमण्डले च स्वर्गीया सुषमा व्यराजत । स्थिर: प्रशान्तोऽन्तर्मुख आनन्दमयोऽसौ संन्यासी दृष्ट्य कया किञ्चित्कथयितुमिव नरेन्द्रनाथमपश्यत् । संन्यासिनं तं स्वाभि मुखमग्रेसरन्तमवलोक्य भयेनासौ त्वरितमेव आसनं परित्यज्य , पलायमानो गृहान्निर्गतः । परन्तु द्वितीये क्षण एव तेनेत्थमनुभूतं, सत्यमेव भयस्य न किमपि कारणम् । मया भ्रान्तिः कृता । साहसे समागते पुनरसौ गृहं प्रविष्टः । परन्तु स च संन्यासी तावददृश्यतां गतोऽभवत् । बहुकालं यावत् प्रतीक्षायां कृतायामपि स संन्यासी न दृष्टिगोचरो बभूव । पलायनहेतुना पश्चात्तापं कुर्वतो नरेन्द्रनाथस्य हृदयमाकुलीभूतम् । एतद्घटनाप्रसंगेनानन्तरं स ब्राह – “संन्यासिनस्तु मया बहवो दृष्टाः, किन्तु तादृशी मुखस्याद्भुतकान्तिः कुत्रापि नाव- लोकिता । तन्मुखं चिरं मम मानसेऽङ्कितं बभूव । सम्भवति मम भ्रम एव सः । परन्तु मयैतत्प्रतीयते यत् तस्मिन् दिने बुद्धदेवस्य दर्शन- मासाद्य धन्योऽहं संवृत्तः ।
- बुद्धदेवस्थ जीवनप्रभावो नरेन्द्रनाथस्योपरि विपुलभावेन पपात । स च
भगवतो बुद्धस्य हार्दिक्या उदारताया महाप्राणतायाश्चातिप्रशंसामकरोत् ।