युगाचार्य विवेकानन्दः , - दक्षिणेश्वरे श्रीरामकृष्णमवलोक्य परिमुग्धतामगच्छत् । तस्य ईश्वर- परायणता भक्तिविश्वासः, भगवत्प्रेम, कामकाञ्चनपरित्यागः, वारं वारं भावसमाधिश्चेति सर्वमतिशयम मानवीयम लौकिकं चासीत् । स किल तं देवमानवमतिघनिष्ठभावेनाधिगन्तुं - वीयं गृहं नगरभागं च धन्यं विधातुमीश्वरप्रगयिनं तं श्रीरामकृष्णमामन्त्र्य उत्सवानन्दमायोजितवान्, नगरभागस्य मानवाः परिचिताः सुहृदच तेन निमन्त्रिताः । आध्यात्मिकः समारोहः, भजनं कीर्तनम्, ईश्वरीयप्रसङ्गश्चेत्यु सवशब्दार्थः । देवदेवीनां महिन्नो गानमाकर्णयतः श्रीरामकृष्णस्य मन एकमतीन्द्रियलोकमुपाढौकत । स च सच्चिदानन्ड्रेन परमेण ब्रह्मणा सह मिलित्वा समाधिस्थो वभूव । बाह्यज्ञानमलुम्पत्, केवलमात्मज्ञानमात्मचैतन्यमवाशिष्यत् । अस्या- मवस्थायामेवासी ईश्वरीयप्रसङ्गमकरोत्, यमाकर्ण्य जनाः परममुग्धा बभूवुः, सर्वेपामन्तःकरणेषु दिव्यो भावो जागर्ति लेभे, सर्वे च दिव्या- नन्दमास्वादयन् । १/८१ ईसवोयो नवम्बरमास: । सुरेन्द्रनाथस्य भवने कतिभिश्च- नानुरागिभिर्भक्तः सह श्रीरामकृष्णदेवस्य शुभागमनमभवत् । एकस्य सुगायकत्याभावः प्रतीतोऽभूत् | सुरेन्द्रनाथः प्रतिवेशिनो विश्वनाथदत्तस्य पुत्रं नरेन्द्रनाथं भजन-गानार्थमाह्वयत् । गायकमवलोक्यैव श्रीरामकृष्ण देवश्चकितो बभूव । अयमसौ ब्रह्मलोकस्य ऋषिः । स युवकं पर्यचिनोत्, गृहस्य, पित्रोर्वा परिचयेन न, तदीयमलौकिकं दर्शनमेव तत्परिचयं प्रायच्छत् स विह्वलतां गतः । स तु तमेव समीक्षमाणस्तस्थौ ।.. नरेन्द्रनाथः प्रसन्नेन मनसाऽगायत् । तस्य गानमाकर्ण्य श्रीराम- कृष्णदेवो 'भावस्थो' वभूव । भजनादी समाप्ति गते श्रीठाकुर: सुरेन्द्रनाथं रामदत्तं च प्रति युवकस्य परिचयं पृष्टवान् । एकस्मिन् दिने तेन सह दक्षिणेश्वरे आगमनाय तावनुरुरोध | एतेनापि सन्तोषाभावात् स नरेन्द्रनाथं पार्श्वमाहूय स्नेहपरिपूर्णया दृशा स्वीयमान्तरिकनिधिमसौ, व्यलोकयत् । स तु नरेन्द्रनाथं निरतिशय घनिष्ठभावेन प्राप्तुमियेष
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति