युगाचार्य-विवेकानन्दः माणो व्याकुलस्तिष्ठामि । अत्र किञ्चिद् अवधानं देयमासोत् ।" " द्वितीये क्षणे करौ बद्ध्वा रुदन्नसौ प्रोवाच- "अहं जानामि प्रभो, त्वं स एव पुरातन ऋषिः, नररूपे नारायणोऽसि, जीवानां दुर्गति- निवारणाय पुनः शरीरं धारयित्वा समागतोऽसि । " ४० , श्रीठाकुरस्यैते ना पूर्वांचरणेन तस्य मनसि या प्रतिक्रिया समुद- पद्यत, तां बहुदिनानन्तरं नरेन्द्रनाथोऽब्रवीत् – “अहं तु तादृशव्यव- हारेण सहसा निर्वाक् स्तम्भितश्चाभूवम् मनसि व्यचारयम्-कं द्रष्टुमागतोऽस्मि । अयं तु नितरामुन्मादी । अन्यथा अहं विश्वनाथदत्त- पुत्रः, मामेतादृशीं वार्ता कथयति ? यदस्तु, अहमवागतिष्ठम् । असा- वद्भुत उन्मादी यन्मनस्यायातमकथयत् । द्वितीयक्षणे मम तत्रैव स्थितिमादिश्य स गृहे प्राविशत्, नवनीतं, सितां, किञ्चिन्मधुरं च समानीय स्वकीयेन हस्तेन मां भोजयितुं तत्परो बभूव । मयोक्तम्- “भह्यं दीयतामहं सहचरेभ्यः प्रदाय भक्षयिष्यामि ।” परन्तु तेन ममै - कमपि न श्रुतम्, उक्तं च – “अनन्तरं तेऽत्स्यन्ति ।” इति व्याहृत्य मां सर्वं तत् स्वहस्तेनैवाभोजयत् । ततश्च शांतो बभूव । अनन्तरं च मम हस्तं गृहीत्वा जगाद – “कथय, त्वरितमेवैकस्मिन् दिने त्वमत्रै- काकी समागमिष्यसि ?” तस्यैकांतमनुरोधमस्वीकतु मशक्नुवन् 'समा- गमिष्यामि' इत्यवोचम् । ततस्तेन साकं गृहमागत्य सहचरैः सहोपा- विशम् ।” परन्तु गृहे समायात एव श्रीठाकुर: अन्यो मानव इवाभवत् । कुत्रापि कथने ईषदपि असंगतता नासीत् । अनेकधा वर्णित ईश्वरीयः प्रसंगः । तस्य भावसमाधिरभूत् । नरेन्द्रनाथस्तं रहस्यमयपुरुषं विस्मय- मुग्धचेतसाऽपश्यत् । मुग्धः सन् तदीयां वार्तामालोचयत् । अयं यत् कमपि वक्ति, तत् पुस्तकरटितं वचनं न प्रतीयते । भगवान् द्रष्टु' शक्यते न वा, इति प्रसंगे श्रीठाकुर आशासमन्वितं वचनं श्रावयन् उव।च—‘“ओम्, स द्रष्टु' शक्यते । यथा त्वां पश्यामि
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति