युगाचार्य-विवेकानन्दः मानलमभ्यभवत् । बहुविधचिन्ता विक्षिप्तो नरेन्द्रनाथ: प्रायश एक- मासानन्तरमेकदा दक्षिणेश्वर मेकाकी प्रतस्थे । श्रीरामकृष्णस्तदागमन- सुसमाचारमवागच्छदिव। अतः सोऽप्येकाकी स्वीयप्रकोष्ठे लघीय- सोमेकां चतुष्कीं समुपविश्य प्रतीक्षते स्म । - नरेन्द्रमवलोक्यैव आनन्देनाधीरो भूत्वा - 'त्वमागतः !' इत्युक्त्वा तस्य हस्तं गृहीत्वा स्वकीयां चतुष्कीमध्यास्य स्नेहदृशा निर्निमेषमसौ नरेन्द्रमपश्यत् । सहसैव श्रीठाकुरस्याभ्यन्तरेऽद्भुतं भावान्तरम- भवत् । भावाविष्ट इवासौ अस्फुटस्वरेण मनसीव किञ्चिदस्पटमुच्चा- रयल् नरेन्द्रस्याभिमुखं सन्नागन्तुं प्रवृत्तः । तदग्रिमघटनां नरेन्द्रनाथ : स्वयं जगाद – “मया विचारितं विक्षिप्तोऽयं पूर्वदिनवत् सम्भवतः किञ्चिद् विक्षिप्तत्वमाचरिष्यति । एतादृश्यां चिन्तायां समुत्पन्नाया मेवासौ सहसा मत्सन्निधानमागत्य दक्षिणेन चरणेन मामस्पृशत् । स्पर्शेनैतेन तत्क्षणमेव ममैकाऽपूर्वाऽनुभूतिरभूत् । नयने अनिमीलिते आस्ताम् । दृष्टं – भित्तिभिः सह सर्वाणि वस्तूनि वेगेन भ्राम्यन्ति कुत्रापि लीनतां प्रपद्यन्ते, समस्तैर्ब्रह्माण्डैः सह च मम "अहं" भावो- ऽपि अकस्मादेकत्र सर्वग्रासिनि महाशून्ये एकाकारतां लधु धावन् जंगम्यते । भयेनाहमभिभूतोऽभवम् । 'अहं'- भावनाश एव हि मृत्यु - रिति चिन्तितम् । स च मृत्युः सम्मुखे, अतिसमीपे च । आत्मानं स्थिरीकतु सामर्थ्यविरहादहं चीदकरवम् 'अये, त्वया मम किं कृतम् । मम तु मातापितरौ स्तः ।' ४२ “विचित्रविक्षिप्तोऽसौ श्रुत्वेमां वार्तामुच्चैर्जहास । हस्तेन मम वक्षः स्पृशन्नसावुवाच—‘तदेदानों तिष्ठतु | एकवारं न हि, तदा पुनर्भ- विष्यति ।’’ आश्चर्यमिदं यत् तस्य स्पर्शेन तादृशवार्ताकथनेनैव समापूर्व ● नरेन्द्रनाथो यस्यै ब्रह्मज्ञानोपलब्धये एतादृशो व्याकुल आसीत् तदेव ब्रह्मज्ञानं तस्मिन् दिने श्रीरामकृष्णदेवो नरेन्द्रनाथाय प्रदातुमियेष | परन्तु अनंतरं तेन बिचारितं यत् समयोऽसौ नायातः । तच्च निर्विकल्पं ब्रह्मज्ञानं बहुभ्यो वर्षेभ्यः
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति