युगाचार्य - विवेकानन्दः प्रेम तथैवानन्तमसीम निविडं गम्भोरं चाभूत् । श्रीरामकृष्णः पक्षिणां परमस्नेहपूरितवक्षःस्थलेनाच्छादयत्। मातेव स्वीयान् शारीरिकेण ऊष्मणा आत्मज्ञानमार्गमध्यारोहयच्च भक्तान् समवर्धयत्, यथावसरं च युवकान् तान् । श्रीरामकृष्णस्य : दिव्याकर्षणेन यूनां गृहस्य मातापित्रोच्चाकर्षणं न्यूनतामगच्छत् । कलनादिन्या गंगाया- स्तटे विद्यमानं तदेव दक्षिणेश्वरस्थानं तेषां प्रियमभूत् । ते समधिकं दक्षिणेश्वरमागच्छन् । रात्रावपि तत्रैवातिष्ठन् । किन्तु श्रीरामकृष्णनयनयोर्नासीन्निद्रा । संसारकल्याणचिन्तायां ध्यानमग्नावस्थायां च तस्य निशा व्यत्यगच्छन् । उषःकाले मत्तो भवन् सुमधुरकण्ठेन कदाचिन्मातुर्नामान्यगायत्, कदापि करतल- ध्वनिना परमपावनहरिनामनि तल्लीनतामगच्छत् । धौतवस्त्रस्य सम्यक् धारणमपि कठिनमभूत् । निद्रितयुवकभक्तानां समीपं गत्वा प्रोवाच – “अये ! यूयमुत्तिष्ठत, उपविश्य ध्यानं कुरुत, मातुर्नामानि जपत, किमत्र शयनाय समागताः ? " ५५ , , श्रीरामकृष्णस्य कण्ठस्वरे कर्णगोचरीभूते सति सर्वे चकिता भवन्त उदतिष्ठन् केचिद् ध्याने समुपाविशन्, केचन जपानन्व- तिष्ठन् । ध्यानप्रकारं चापि श्रीरामकृष्णः सर्वेभ्य: समबोधयत् । केषां- चनाभ्यन्तरेषु शक्तिसञ्चारमकरोत् । शिष्या गभीरे ध्याने विनिमग्ना बभूवुः । पूर्वाकाशे लालिमाच्छादनतः प्रागेव मन्दिरे देवताजागरणप्रयुक्तो घण्टाध्वनिरघोष्यत । दीपा: प्राज्वलन् । नौबतवाद्यमवाद्यत । मन्दिरे मंगलनीराजनमारभ्यत, घण्टादुन्दुभयो विनेदुः । सर्वे ध्वनयो गंगायाः कलध्वनिना सहामिलन् । श्रीरामकृष्णस्य गृहेऽपि मधुरप्रार्थना- संगीतानि कीर्तनानि च समभूवन् । स च भावावेशे कदाचिदनृत्यत्, समाधौ चातिष्ठत् । सर्वं दिनमेव भक्ताः समागमन् | तस्योद्दीपनमयं
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति