पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः चकार । सन्देहे तस्य मनो दोलायमानमभूत् । श्रीरामकृष्णोपदेश- वार्तामालोचयन् असौ उपप्रकोष्ठे हाजरामहाशयमुपडुढौके । 'सर्व ब्रह्म' इत्यालोचनाया: प्रसंगेन नरेन्द्रनाथोऽवादीत् – “किमेतदपि कथञ्चित्सम्भवम् ? जलपात्रमपीश्वरो लघुपात्रमपीश्वरः, यद् दृश्यते, तत्सर्वमीश्वरः, किम्बहुना, वयमपीश्वराः स्मः ? - ५७ हाजरामहाशयः परिहसन्नुवाच – “एतत्कि सम्भवति ? त्वमपि कीदृशः परप्रत्ययनेयबुद्धिरसि ।” सिद्धांतेऽत्रोभावपि प्रकामं जहसतुः । श्रीरामकृष्णोऽद्वैतानुभूतिप्रतिष्ठितो नरेन्द्राया तज्ञानमुपदिदेश | तदानीमपि तदीयं मानसं तदुच्चभूमिगतमभूत् । भावाविष्टो बहिर्निः सृत्य “युवाभ्यां किमुच्यते ?" इत्युक्त्वा नरेन्द्रं संस्पृश्यासौ समाधि- स्थो बभूव । तस्य मुखमण्डले स्वर्गीयो हासो व्यजृम्भत । दिव्या- नन्दस्य प्रभयाऽसौ प्रज्वलितोऽभूत् । श्रीठाकुरस्य तेन शक्तिपूर्णस्पर्शन नरेन्द्रनाथस्य मनस्यद्भुतं परिवर्त्तनमभवत् । नयनजवनिकाऽप- ससारेव | सर्वत्रैवासौ ब्रह्माद्राक्षीत् । तात्कालिकघटनासम्बन्धे कदाचिद् भविष्यत्काले तेन प्रति- पादितम् - " श्रीठाकुरस्य तेनापूर्वस्पर्शेन क्षणेनैव ममाभ्यन्तरेऽद्- भुतं भावान्तरं समुपस्थितम् । स्तम्भितो भवन् सत्यमेवाहमद्राक्षम् - विश्वब्रह्माण्डेऽत्रेश्वरव्यतिरिक्तं न किञ्चिदन्यदास्ते । भावोऽयं कथं- चिदपि न ह्रासं गतः । अहं गृहे प्रत्यागमम् । तत्रापि स एव भावः । यत् किंचिददृश्यत सर्व ब्रह्मैव । भोजनायोपाविशम्, अपश्यम्, स्थाली, लघुजलपात्रम्, परिवेषयिता सर्वे ब्रह्म, अहमपि तद्भिन्नो न कश्चिदन्यः । एकं द्वौ वा ग्रासौ भुक्त्वाऽहमतिष्ठम् । 'उपविष्टोऽसि रे ! खादसि कथं न ?” मातुरेतेन वचसा बोधमधिगतोऽहं पुनर्भोक्तु प्रवृत्तः ।” नरेन्द्र एकस्मिन् विराइब्रह्मानुभूतिराज्ये प्रवेशमकार्षीत् । तत्र ब्रह्मव्यतिरिक्तं न किंचिदन्यत् । सर्वं चैतन्यमयमास्ते । तस्य भावस्य